________________
३७४
कातन्वव्याकरणम्
वाच्यमित्यतः समाहारद्वन्द्वप्रधानेन व्यपदिश्यते । अर्थे कार्यासम्भवात् तद्वाचकशब्दे कार्यं स्यात् । अर्धर्चादौ घृतादीनां पुंस्त्वमिति कश्चित् । तथा च अमरः अपर्चादौ घृतादीनां पुंस्त्वम्' । कठेनेति कठमुनिनेत्यर्थः । शाखानिमित्त इति पञी | ननु शाखाध्ययनमेव प्रवृत्तिनिमित्तं शाखाध्ययने शाखाशब्दः, उपचारात् । किञ्च अध्ययनमिति कर्मसाधनमते न दोषः । एकस्य भाव एकत्वं द्वन्द्वस्यैकत्वं द्वन्द्वैकत्वमिति तत्पुरुषः । आरा शस्त्रीत्यादि । आरा चर्मप्रभेदिका | गङ्गाशोणमिति । अथ शोणशब्दस्य नदविशेषवाचकत्वे कथं नदीत्वेन ग्रहणम् । उच्यते - नदीदेशनगराणामित्यत्र नदीशब्देन जलाधारमात्रमुच्यते, उपलक्षणत्वात् । तेन गङ्गाह्रदमित्याद्यपि सिद्धमिति भावः ।
शाश्वतिकवैरिणाम् इति । शाश्वतिकवैरं सततं वैरं विद्यते येषामिति विग्रहः । तर्हि कथम् – 'देवासुररमृतमम्बुनिधिर्ममन्थे' इति चेत्, नेदं शाश्वतिकवैरम्, अपि तु नैमित्तिकमिति टीकाकृत् । व्यञ्जनविशेषकाणामिति । सा विभाषा | यथा दधिघृतम्, दधिघृता इति । अद्रव्याणाम् इति । अद्रव्याणां विरोधिनां सहानवस्थितानां च विभाषया । यथा - सुखदुःखम्, सुखदुःखानि । तेषामित्यादि । तेषां चरणादीनां द्वन्द्वः समाहार एव भवतीति पूर्वोक्तोऽर्थो निश्चित इत्यर्थः । दधिपयसामिति | दधिपयआदीनां पुनर्द्वन्द्वः खलु निश्चितमन्यो भवेत् । अन्येषां समाहार इतरेतरश्च शेषो द्वयोरिति वचनादित्यर्थः । दधिघृता इति । अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं मतम् इत्यमरकोशदर्शनाद् घृतशब्दस्य पुंस्त्वमिति केचित् । अस्मन्मते शिष्टप्रयोगतो जेयः। पञ्यां तथाप्येकत्वमितीति | अन्यथा द्वन्द्व इत्येतावन्मात्रमुच्यते इत्याशयः । ब्रह्मप्रजापती इत्यादय इति । आदिग्रहणात् शिववैश्रवणौ, स्कन्दविशाखौ, प्रधानापसदावित्यादि । गवाश्वादीनां तु समाहार एव-'गवाश्वम्, गवाविकम्, गवैडकम्, खजूरामलकम्, कुब्जकैरातम्, कुब्जवामनम्, अजा-विकम्, अजैडकम्, पुत्रपौत्रम्, श्वचाण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीप्रच्छदम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रपुरीषम्, शकृन्मेदः, मांसशोणितमित्यादयः । दर्शितेभ्योऽन्य-त्रानियमः । एषामभिधानव्यवस्था भाष्येऽप्यादृतेति टीका ||३५३ ।
[समीक्षा]
समाहार द्वन्द्व तथा समाहार द्विगु समास में एकवद्भाव तथा उसके नपुंसकलिङ्ग की व्यवस्था पाणिनीय तथा कातन्त्र दोनों ही व्याकरणों में की गई है | पाणिनि के सूत्र हैं - "दिगुरेकवचनम्, बन्दश्च प्राणितूर्यसेनाङ्गानाम्" (अ० २/४/१, २ - १६) ।