________________
कातन्त्रव्याकरणम्
स्वशोणितरहिता इत्यपरे । शतेनाञ्जलिर्येषां पूर्यते इत्यन्ये । गोचर्ममात्रेऽपि राशौ हते यत्र न पतितत्वं श्रुतिस्मृतिभ्यामुक्तमित्यपरे । नकुलपर्यन्ता इत्येके । इयमेव स्मृतिः प्रमाणम् इतरासां परस्परविरोधादिति । अत्र श्लोकः -
३७०
क्षुद्रजन्तुरनस्थिः स्याद् अथवा क्षुद्र एव यः ।
शतं वा प्रसृतौ येषां केचिदानकुलादपि || इति ।
"
फलानां बदराणि चामलकानि चेति । वृक्षादीनां विशेषशब्दः प्रत्येकमभिसंबध्यते । प्लक्षाश्च न्यग्रोधाश्चेति बहुवचनेन विग्रहः । पक्षे प्लक्षन्यग्रोधाः इत्यादयोऽप्युदाहार्याः । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ इत्यप्राणिजातित्वात् कथं न स्यात् ? सत्यम्, व्यक्तिवचनत्वात् । व्यञ्जनेत्यादि । विशेषा एव विशेषकाः, स्वार्थे कः । सेत्यनेन विभाषोच्यते । सा विभाषा बहुत्वेऽबहुत्वे चेत्यर्थः । पक्षे दधिघृते, दधिघृतानीति अप्राणिजातित्वात् नित्ये प्राप्ते वचनम् । न द्रव्याणि अद्रव्याणि तेषां विरोधिनामित्यर्थः । सहानवस्थानं विरोधः । समता भवति, सामान्यमेव भवति । इतरेतरयोगः समाहारश्चेत्यर्थो निदर्शनं खल्वप्राणिजातित्वान्नित्यं प्राप्नोति । सुखदुःखम्, सुखदुःखे । अद्रव्याणामिति वचनात् शीतोष्णे उदके नित्यं सुखदुखे । स्यात् । तेषां चरणादीनां समाहार एव । दधिपयसामिति बहुवचनेन गणो गृह्यते दधिपय-आदीनामन्य इतरेतरयोग एवेत्यर्थः । तद् यथा दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, वशिष्ठकौशिकौ, प्रधानापसदौ, याज्यानुवाकौ, कृष्णशुक्लौ, इध्माबर्हिषी । ह्रस्वस्य दीर्घता । दीक्षातपसी, मेधातपसी, श्रद्धातपसी, अध्ययनतपसी, उदूखलमुषले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे । गवाश्वादीनां समाहार एवाभिधीयते । गवाश्वम्, गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम् कुब्जवामनम्, कुब्जकिरातम्, पुत्रपौत्रम्, श्वचाण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीप्रच्छदम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, शकृन्मेदः, मांसशोणित-मित्यादयः ।
गवाश्वप्रभृतिषु उच्चारितद्वन्द्ववृत्तं रूपान्तरे नायं विधिः - गोऽश्वम्, गोऽश्वौ । पशुद्वन्द्वे विभाषैव । दश मार्दङ्गिकपाणविकाः इति गणनायां भेदेनार्थस्य व्यवस्थितत्वाद् दिशामिव समाहारो नास्ति । यथा दिक्संख्यायाः समाहारेऽभिधेये प्रतिषेधमन्तरेणापि समाहाराभावः सिद्धः, तथापीति भावः । संख्यासामीप्यविवक्षायां त्वभेदेन समाहारे