________________
४५५
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः पञ्चमीत्यत आह -क्रीतादेरपीति । येन क्रीतः स एव क्रीत उच्यते इत्यर्थः । एवमन्यत्रापि बोध्यम् । तर्हि कथं द्विशूर्पण क्रीत इत्यादि, भेदेन वाक्यमित्याह-क्रियाविर्भावश्चेति । एतेन “तेन क्रीतम्" इति परसूत्रं न वाच्यम् । ओज इत्यादि तृतीयान्तेभ्यो वर्तते इत्यर्थे इकण् इत्यर्थः । इत्यादीति प्रत्यनुभ्यामीपलोमकूलेभ्यः- प्रतीपं वर्तते प्रातीपिकम् । एवम् आनुलोमिकम्, आनुकूलिकम् । क्रियाविशेषणत्वाद् द्वितीया । परेर्मुखपाश्र्वाभ्याम् - परिमुखं वर्तते पारिमुखिकः । एवं पारिपार्श्विकः । तदुञ्छति -बदराण्युञ्छति बादरिकः । उच्चिनोतीत्यर्थः । तद् रक्षति-समाज रक्षति सामाजिकः । शब्दद१रौ करोति - शाब्दिको वैयाकरण एव रूढः, न तु काकादिकः । दर्दुरो वाद्यभेदः दा१रिकः । अन्येऽपि टीकात ऊहनीयाः । कथं शाक्तीकः, याष्टीक इति चेत् तत्र व्यवस्थितवानुवृत्तेरिवर्णलोपो न स्यात् । ऋवर्णोवर्णेसुस्तान्तदोर्य इकण आदिलोपो दृश्यते । यथा पैतृकः, दौहितृकः, शालाटुकः, आलाबुकः, सार्पिष्कः, धानुष्कः, औदश्वित्कः, दौष्कः। शश्वतस्तु शाश्वतिकः । तान्तत्वादादिलोपे प्राप्ते तद्बाधकमिदम् । रूटिशब्दा ह्येते तद्विता इति टीका] ।
[क० च०]
तेन । तेनेति तृतीयान्तमनुकृतं लुप्तपञ्चम्यन्तं यतः टीकायामुक्तं तृतीयान्तादिति, अन्यथा तन्न घटते । एवं पूर्वस्मिन् सूत्रे बोध्यम् । यद्यपि सूत्रे लिङ्गं संख्या कालश्चातन्त्राणि तथाप्यक्षविष्यति इति न स्यात् । यतोऽत्र कर्तृनिर्देशात् कर्तुः प्राधान्यम्, अन्यथा तेन देवनमिति निर्दिशेत् । ततो भविष्यति कर्तृत्वाध्यारोपात् प्रत्ययः । तत्तु गौणम् अतो न स्यात् । अथ तर्हि भूतेऽपि तथा, नैवम् । तत्रानुवृत्तिविज्ञानात् वर्तमानताऽध्यवस्यति । संसृष्टमिति कर्तरि क्तः, अकर्मकाद् धातोः । परत्राभेदोपचारात् पाठो नास्तीति लक्ष्यते वृत्तौ । न खलु संसर्ग इति विद्यया सह पुरुषस्य समवायसम्बन्धात्, प्लवनसामान्यस्येति कथमिदम् उच्यते, नहि देशान्तरप्रापणम् अभिभवश्च प्लवनम् । सत्यम् । अत एवोक्तं सामान्यस्य विद्यमानत्वादिति, तच्च सामान्यं सम्बन्ध्यभावरूपं पूर्वदेशाद् ब्रह्महत्याया वा । ततो गोपुच्छेन तरति अधोदेशसम्बन्धाभावं साधयति । काण्डस्य प्लवे भेला (भेरुया) इति यस्य प्रसिद्धिस्तेन तरति पूर्वदेशस्य संबन्धाभावं दर्शयति । एवं ब्रह्महत्यायाः सम्बन्धाभावं साधयति ।