________________
४५६
कातन्त्रव्याकरणम्
नन्वाश्वमेधिको ब्रह्महत्याया इति कथमत्र षष्ठी, द्वितीयैव स्यात् तचाह - तद्धिते सतीत्यादि, तर्हि 'कृतपूर्वी कटम्' इत्यादौ कथं कटादेर्द्वितीया, कृतपूर्वीत्यादौ कृदन्तसाधनप्राधान्यात् सम्बन्धे षष्ठ्येव स्यात् । अथ धातुयोगोऽस्ति (तत्र नास्तीति न स्यात्) सम्बन्धषष्ठीबाधकः ? सत्यम् । क्रियार्थवाचकतद्धितप्रत्यये जाते क्रियाया अप्राधान्यात् | यद् वा अत्र सम्बन्धाभावमात्रार्थत्वाद् धातुरकर्मकः, 'कृतपूर्वी' इत्यत्र तु सकर्मक इति चेत् कथम् ऋतशब्दस्य वर्तमानत्वाद् ऋते देवदत्तमिति कर्मत्वं कृत इत्यनेन क्रियामुख्यत्वेन प्रतिपाद्यते प्रत्ययेनैव कर्ता प्रतिपाद्यते । ततो विशेषणविशेष्यभावात् प्रकृत्यर्थस्य गौणता अत्र पूर्वीकरणकर्त्रा प्रधानभूतं गुणभूतक्रियोच्यते, ऋते देवदत्तमित्यत्र पुनर्वर्जनक्रियैव प्रधानमिति । अथ द्विगुणाकरोति, त्रिगुणाकरोति क्षेत्रमित्यत्र कथं द्वितीया कर्मणः क्रियाप्रतिपादकस्याभावात् ? सत्यम् । तत्र यद्यपि करोतेः करणमेव कर्म तथापि कर्षणक्रियाव्याप्यत्वाद् द्वितीया । यथा 'नारायणं नमस्कृत्य' इति ।
ताम्बूलेत्यादि । ननु कथमत्र लक्षणा पणवाचकान्न कथं स्यात् । सत्यम् । तात्पर्यानुपपत्त्या यदीश्वरप्रयुक्तमेव पदं साध्यमिति तात्पर्यमस्य न तद्विधानाद् एवं लक्षणा न स्यात् । पष्यं विक्रेयद्रव्यं तत्सम्बन्धो विक्रयविक्रेतृसम्बन्धाद् विक्रेतोच्यते । ततः श्रुतत्वात् पणवाचकादेव शब्दात्, न तु विक्रेयसामान्यवाचकात् । एवं शिल्पादित्यत्र बोध्यम् । शिल्पं शिल्पसंबन्धात् शिल्पिनि वर्तते अभेदोपचारेण यो वर्तते तस्मादेव पूर्ववत् प्रत्ययः । नियोग इत्यधिकरणे घञ् । अत्रापि पूर्ववल्लक्षणा । शुल्कशालादावस्थानं क्रीतादेरिति क्रीत इति भावे क्तः । अन्यधा भेदोपचार इति न भवति, अत एव क्रीतशब्देन पटादेरुक्तत्वात् । अत एव पञ्यामुक्तं क्रीतशब्देन द्विशूर्पादिरुच्यते । ततः क्रयक्रियया सह साध्यसाधकसम्बन्धत्वादन्यदुच्यते । द्विशूर्पादिशब्देन यत् क्रियते तदुच्यते क्रीतशब्देनानन्ययोगाद् एकैव लक्षणानन्वयात् । यावदेवान्चयापत्तिरित्यनेन तावदेव लक्षणा । अथवा क्रीतादिशब्दात् क्तान्तादर्शआदित्वात् । ततो मूल्ययुक्तं क्रीतशब्देनैवोच्यताम् ।
अथ यद्यभेदोपचारस्तदा कथं द्विशूर्पेण क्रीत इत्यादि वाक्यम् । सत्यम् । क्रीतादेरित्यादिसूत्रेऽभेदविवक्षया पञ्चमी, अतः क्रीत इत्युक्तं सुखार्थम् । अथ अभेदोपचारवृत्तेः कर्मणः कर्तुः कथन्न स्याद् यत् क्रयणं मूल्यादि तस्मात् कथं स्यात् ? सत्यम् । एवं वर्तमानात् परो लुग् विधीयते, कृतादेरित्यादिग्रहणं गणप्रपञ्चार्थम् | आयुध्यतेऽनेनेत्यायुधम्,