________________
१३९
नामचतुष्टयाध्याये चतुर्थः कारकपादः ३. आ पाटलिपुत्राद् वृष्टो देवः। मर्यादा तथा अभिविधि अर्थ में 'आङ्' की कर्मप्रवचनीयसंज्ञा तथा उसके योग में पाटलिपुत्र में पञ्चमी । ङसि को आत् आदेश, समानलक्षण दीर्घ एवं परवर्ती आकार का लोप ।।३०५/
३०६. दिगितरर्तेऽन्यैश्च [२।४।२१] [सूत्रार्थ]
दिग्वाची शब्द एवं इतर-ऋते-अन्य शब्दों के योग में लिङ्ग (प्रातिपदिक) से पञ्चमी विभक्ति होती है ||३०६।
[दु० वृ०]
'दिश्-इतर-ऋते -अन्य' एभिर्योगे लिङ्गात् पञ्चमी भवति । पूर्वो ग्रामात्, उत्तरो ग्रामात्, पूर्वो ग्रीष्माद् वसन्तः, इयमस्याः पूर्वा दिक् । इतरो देवदत्तात्, ऋते देवदत्तात् । ऋते देवदत्तम् इति द्वितीयापीष्टा | अन्यो देवदत्तात्, भिन्नो देवदत्तात् ।।३०६।
[दु० टी०]
दिगि०। दिगित्यर्थस्तस्याभिधायकोऽपि दिगुच्यते, अर्थेन योगासम्भवात् । दिगर्थश्चोपलक्षणम्, “अन्त्यात् पूर्व उपधा" (२।१।११) इत्यादिनिर्देशात् । तेन देशकालवृत्तिनापि योगे भवतीत्याह - पूर्वो ग्रामादिति । इतर इत्यपरार्थः, स च निर्दिष्टप्रतियोगी । ऋते इत्यव्ययं वर्जनार्थम् । मतान्तरं च दर्शयति । वर्जनक्रियाव्याप्यविवक्षया द्वितीयापीति भावः । अन्यार्थे अन्य इत्याह - भिन्नो देवदत्तादिति । एवमन्तरं विलक्षणं पृथगित्यादि । अन्च्युत्तरपदाजाहिप्रत्ययान्ता दिक्शब्दा एव । प्राग् ग्रामात् । प्राक् प्रभातात् । प्रत्यग् ग्रामात् । आच्– दक्षा ग्रामात् । आहि च - उत्तराहि ग्रामात् । सद्यआद्यत्वाद् "दिगुदेशकालार्थात् सप्तमीपञ्चमीप्रथमान्तादस्तातिः"। तस्याञ्चतेर्लुक । "दक्षिणोत्तराभ्याम् आच् आहि च दूरे" (अ० ५।३।३६-३८)। संबन्धविवक्षायां तु षष्ठी न निवार्यते । पुरो ग्रामस्य, अधो ग्रामस्य । पूर्वापरयोरसिः पूरधौ च । दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य । दक्षिणोत्तराभ्यामतस् । उपरि शैलस्य | ऊर्ध्वस्य उपभावो रिश्च । अतसर्थैरपि योगे दिग्लक्षणैव पञ्चमी । ततः पश्चात्, तत उपरिष्टात् । अधरस्य पश्चभावः, आतिश्च । ऊर्ध्वस्य उपभावो रिष्टातिश्च । नन्ववधिभावविवक्षायां दिगितरान्यग्रहणमनर्थकम् ? सत्यम् । प्रपञ्चार्थमेवैतत् ।।३०६।