________________
नामचतुष्टयान्याये पसमः समासपादः
३८९
[दु० वृ०]
भाषितपुंस्कानूप्रतिषेधबाधकोऽयम् । कठी च सा भार्या चेति कठभार्या । एवं दत्तभार्या, पञ्चमभार्या, पाचकभार्या, भाषितपुंस्क इति किम् ? खट्वावृन्दारिका, अनूङिति किम् ? ब्रह्मबन्धूदारिका ।।३५७।
[दु० टी०]
कर्म० । कर्मधारयः संज्ञा यस्येति विग्रहः। प्रतिषेधबाधकोऽयमिति । येन केनचित् प्रतिषेधःप्राप्तः सोऽनेन बाध्यते इति ।तथा च उपलक्षणमात्रं कठभार्येत्युदाहृतम् । जातीयदेशीययोश्च स्त्रीत्वस्याविवक्षैव । दत्तजातीया, दत्तदेशीया । पञ्चमजातीया, पञ्चमदेशीया । कारकजातीया, कारदेशीया । दीर्घमुखजातीया, दीर्घमुखदेशीया इत्येवमादयः ।।३५७।
[वि०प०]
कर्म० | कर्मधारयः संज्ञा यस्येति विग्रहः । अथ किमर्थमिदम्, तुल्याधिकरणत्वात् पुंवद्भाषितेत्यादिनैव सिध्यतीत्याह-भाषितेत्यादि । कठभार्येति । तथा जातेरिति प्रतिषेधः प्राप्तः ।।३५६।
[क० च०]
कर्म० । 'कर्मधारयसंज्ञे' इति विषयसप्तमीयम्, न पुनरौपश्लेषिकाधारः, संज्ञाग्रहणात् । अन्यथा कर्मधारये त्विति कुर्यात् । अत्रैवापूरण्यादिषु कर्मधारये चेत्यकरणाद् वा । नत्र न वर्तते मुंवद्भावग्रहणात् । निषेधानुवृत्तौ पुंवद्भावस्य लाभाभावात् पुनर्वैयर्थ्यांपत्तेः । प्रतिषेधबाधकोऽयमिति । अत एव येन केनचित् प्रतिषेधः प्राप्तः, सोऽनेन बाध्यते । तथा चोपलक्षणमात्रमुदाहृतम् - 'कठभार्यः' इत्यादिकमिति टीकाकृतोक्तम् । एतेन पूरण्यादिष्वपि पुंवद्भावः 'वारुणत्रयोदशी' इत्यादौ । न चानन्तरत्वात् “संज्ञापूरणीकोपधास्तु न" (२/५/१९) इत्यस्यैव वाधक इति वाच्यम्, संज्ञापूरणीकोपधानां कर्मधारय इत्यकरणात् । यद्येवम् ऊङन्तस्यापि स्यात् । उच्यते , पूर्वत्र "ऊसंज्ञापूरणीकोपधास्तु न" इति सिद्धे पृथक्करणाद् ऊङो न स्यात् । तस्माद् भाषितपुंस्कानूङ् प्रतिषेधबाधकोऽयम् इत्यस्यायमाशयः। भाषितपुंस्कोऽपूण्यादिषु इत्यस्य संज्ञापूरणीकोपधास्तु नेत्यस्य च बाधकोऽयम् । अत एव अनूङ् इति किम् ? ब्रह्मबन्धूदारिकेति