________________
कातन्वव्याकरणम् ३६५. ह्रस्वस्य दीर्घता [२/५/२८] [सूत्रार्थ]
लक्ष्यानुरोधवश (लोकाभिधान से) समास में कहीं कहीं पर ह्रस्व वर्ण को दीर्घ आदेश होता है ।।३६५।
[दु० वृ०]
ह्रस्वस्य दीर्घता भवति समासे क्वचिल्लक्ष्यानुरोधात् । दात्राकर्णः, द्विविधाकर्णः, द्विगुणाकर्णः, ट्यगुलाकर्णः । चिह्नस्यैव कर्णे दीर्घः । क्वचिन्न स्यात् अष्टकर्णः, पिष्टकर्णः । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्विबन्तेषु प्रादिकारकाणामेव दीर्घः- उपानत्, उपावृत्, प्रावृट, मर्मावित्, नीरुक्, ऋतीषट्, परीतत् । एवमन्येऽपि ।।३६५।
[दु० टी०]
हस्वस्य० । दात्राकर्ण इत्यादि । दात्राकृतिः कर्णोऽस्य, द्विविधः कर्णोऽस्य, द्विगुणः कर्णोऽस्य,ट्यगुलःकर्णोऽस्य इति विग्रहः ।चिह्नस्यैवेत्यादि । चियते गवादियुनावयवगतेन दावादिना संस्थानेन स्वामिविशेषसंस्थानद्वारेण तच्चिह्नम् अङ्क इत्यर्थः।क्वचिन्न स्यादित्यादि । अष्टप्रकाराः कर्णा अस्य, पिष्टावलिप्तौ कर्णौ अस्येति | चिह्नस्यैव कर्णे पिष्टाष्टपञ्चभिन्नछिन्नछिद्रसुवस्वस्तिकवर्जितस्येति प्रतिपत्तव्यम् । उपनह्यतीति क्विप् । एवमुपवर्तत इति । प्रवर्षतीति । मर्माणि विध्यतीति । निरोचत इति । ऋतिं सहते, तत्रापिग्रहणात् षत्वम् । परितनोतीति यममनतनगमां क्वाविति पञ्चमलोपः ।
एवमन्येऽपीति । विश्वस्य वसुराजोर्दीर्घः । विश्वं वसु अस्य विश्वावसुः । विश्वं राजते विश्वाराट् । नरे संज्ञायाम् । विश्वं नरा अस्य विश्वानरः । तथा ऋषौ मित्रे । विश्वं मित्रमस्य विश्वामित्रो नाम ऋषिः । एवम् अञ्जनागिर्यादयः । अञ्जनानां गिरिः अञ्जनागिरिः। एवं भञ्जनागिरिः। किंशुकागिरिः। असंज्ञायां न भवति । अञ्जनवर्णो गिरिरञ्जनगिरिः। घान्ते विभाषा लक्ष्यते । प्रतिवेशः, प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । प्रतिहारः, प्रतीहारः । प्रतिकारः, प्रतीकारः । नाम्यन्तस्य काशेश्च प्रत्ययान्ते । नीकाशः, अनुकाशः । न च दृश्यते-निकाशः, अनुकाशः ।ह्रस्वग्रहणम् इह ह्रस्वमात्रप्रतिपत्त्यर्थम् । तेन मध्यवर्तिनोऽपि भवति दुःखार्तादिषु ।असमासेऽपि दृश्यते-पुरुषः, पूरुषः ॥३६५।