________________
४०७
नामचतुष्टयायाये पचमः समासपादः [वि०प०]
ह्रस्वस्य० । दात्रेत्यादि । दात्राकृती कर्णौ यस्य, द्विविधौ कर्णौ यस्य, द्विगुणौ कर्णौ यस्य, व्यगुलौ कर्णौ यस्येति विग्रहः । क्वचिन्न स्यादिति । अष्टप्रकारौ को यस्य, पिष्टलिप्तौ कर्णौ यस्येति वाक्यम् । एतच्चोपलक्षणम् । अन्यत्रापि न भवतीति । यदाह- चिह्नस्यैव कर्णे दीर्घः। पिष्टाष्टपञ्चभिन्नछिन्नछिद्रसुवस्वस्तिकवर्जितस्येति प्रतिपत्तव्यमिति । न हीत्यादि । उपनह्यति, उपवर्तते, प्रवर्षति, मर्माणि विध्यति, निरोचते, ऋतिं सहते, परितनोतीति क्विप् । ऋतिषडिति । तत्रापिग्रहणात् षत्वम् । तनोतेर्यममनतनगमां क्वाविति पञ्चमलोपः। "पातोस्तोऽन्तश्च" (४/१/३०) इति आतश्चाद् भवति ।
[क० च०]
हस्वस्य० । दीर्घो भवन् ह्रस्वस्यैव भविष्यति । ह्रस्वग्रहणं स्वरमात्रप्रतिपत्त्यर्थम्, तेन मध्ववर्तिनोऽपि स्याद् दुःखार्तादिषु । दुःखेन ऋतः इत्यादिविग्रहः । दीर्घ इति कृते सिद्धे भावप्रत्ययो वैचित्र्यार्थः।समास इत्युपलक्षणम् ।पुरुषः,पूरुषः । तनुस्तनूरित्यसमासेऽपि दर्शनात् । क्वचिद्ग्रहणानुवृत्तेः फलमाह-क्वचिन्न स्यादिति । बिभ्यत्सतीतिवद् मर्मविद् इत्यत्र "हचतुर्थान्तस्य०" (२/३/५०) इत्यादिनाऽऽदिचतुर्थत्वं स्याच्चेत्, उच्यते । अभ्यासादेवाकृतसम्प्रसारणस्यैव ब्यधेरोष्ठ्यबकाराभ्युपगमात् । अत एव 'इषुर्व्यवाद् व्यधात्' इति माघयमकेऽप्यभङ्गः।
एवमन्येऽपीति । विश्वस्य वसुराजोर्दीर्घः । विश्वं वस्वस्य विश्वावसुः । विश्वं राजते विश्वाराट् । नरे संज्ञायाम् । विश्वं नरा अस्य विश्वानरः । ऋषौ मित्रे । विश्वं मित्रमस्य विश्वामित्रो नाम ऋषिः । एवम् अञ्जनागिर्यादयः- अञ्जनानां गिरिः अञ्जनागिरिः । एवं भञ्जनागिरिः । असंज्ञायां न स्यात् । अञ्जनवर्णो गिरिरञ्जनगिरिः । घान्ते विभाषया लक्ष्यते - प्रतिवेशः, प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । प्रतिहारः, प्रतीहारः । प्रतिकारः, प्रतीकारः, नाम्यन्तस्य काशेश्च प्रत्ययान्ते-नीकाशः, अनूकाशः। न च दृश्यते - निकाशः, अनुकाशः इति टीका । संज्ञायां बहुस्वरस्य वत्यनजिरादे:अमरावती, वीरणावती, अनजिरादेरिति किम् ? अजिरवतो, खदिरवती । अजिरखदिरशशकारण्डवप्रभृतयः। शरादीनां द्विस्वरात् - शरावती, वंशावती । पद्मशरधूमकुशमृगादीनां संज्ञायाम् । पद्मावती, शरावती, धूमावती, कुशावती, मृगावतीत्यादि । वलप्रत्ययेऽपि- कृषीवलः, आसुतीवलः । न च दृश्यते - तमोवलः, मातृवलः, पितृवलः, भ्रातृवलः इति कुलचन्द्रः। तेन "संज्ञायाम् अनजिरादिबहुस्वरस्य वति