________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२५
[वि० प० ]
आख्याता० | ‘निपात्यन्ते' इत्यधिकारादिहापि प्रकृतिप्रत्ययार्थविशेषा लभ्यन्ते । तेन बहुषु मध्ये एकस्य द्वयोर्बहूनां वा प्रकर्षे वर्तमानात् तमप्रत्ययः । द्वयोरेकस्य प्रकर्षे वर्तमानात् तरश्च सिद्धः । अयमेषां प्रकृष्ट आढ्यः आढ्यतमः । एवम् इमावेषां प्रकृष्टौ आढ्यौ आढ्यतमौ । इमे एषां प्रकृष्टा आढ्या आढ्यतमाः इति प्रतिपत्तव्यमिति । अयमनयोः प्रकृष्ट आढ्यः आढ्यतर इति परमतमनुसृत्य दर्शितमिदम् | सिद्धान्ते तु प्रकर्षमात्रविवक्षायां दृश्यते । यथा अस्मिन्नगरे आढ्यतरा वणिजः सन्ति । न ह्यत्र द्वयोरेकस्य प्रकर्षो गम्यते इत्याह- प्रकृष्ट इत्यादि । प्रकृष्टो य आढ्यः स आढ्यतरः, आढ्यतमश्चोच्यते इति भावः । एवं तरांतमामोरपि प्रतिपत्तव्यमित्याह - तथेहि । अयमनयोः प्रकृष्टं पचति पचतितराम् । अयमेषां प्रकृष्टं पचति पचतितमाम् । इदमनयोः प्रकृष्टं किं किन्तराम्, इदमेषां प्रकृष्टं किं किन्तमाम् । इह यदा गुणः पृच्छ्यते तदा गुणप्रकर्षे, यदा तु क्रिया पृच्छ्यते तदा क्रियाप्रकर्षे । पूर्वाह्णतमाम् इति । यद्यपि पूर्वाह्णशब्दार्थस्य द्रव्यत्वेन प्रकर्षार्थो न संभवति, क्रियागुणयोरेव प्रकर्षार्थत्वात् । तथापीह विवक्षणीयोऽर्थः । प्रकृष्यते, स च गुण एव शक्तिस्वरूपत्वात् । " तत्स्था लोप्या विभक्तयः” (२/५/२) इति सप्तमीलोपो न भवति, अनभिधानाद् उच्चैस्तराम्, उच्चैस्तमाम् इति । अधिकरणप्रधानमव्ययमिहाधिकरणशक्तेर्गुणभूतायाः प्रकर्षो गम्यते इति || ४०६ |
[क० च०]
आख्याता० । चकारो नाम्नोऽनुकर्षणार्थः इत्यभिप्रायेणाह - नाम्न इति । आख्यातमिति पूर्वाचार्यप्रसिद्धसंज्ञा क्रियाप्रधानस्येत्याह - आख्यातमित्यादि । पचतीत्यादौ क्रियैव प्रधानम्, देवदत्तः पचतीत्यादौ देवदत्तकर्तृकः पाकः इत्यन्वयात् ।।४०६।
[समीक्षा]
‘आढ्यतरः, आढ्यतमः, पचतितराम्, पचतितमाम्, किन्तराम्, किन्तमाम्' आदि प्रयोगों के सिद्ध्यर्थ कातन्त्रकार ने 'तम' आदि प्रत्ययों का निर्देशमात्र किया है, परन्तु पाणिनि ने 'तरपू, तमप्, इतरच्, डतमच्' ये चार प्रत्यय किए हैं, जिनके लिए पाँच सूत्र हैं- " अतिशायने तमबिष्ठनौ, तिङश्च द्विवचनविभज्योपपदे तरबीयसुनौ, किंयत्तदो निर्धारणे द्वयोरेकस्य इतरच्, वा बहूनां जातिपरिप्रश्ने डतमच्’” (अ० ५/३/५५,५६,५७,९२,९३) । इस प्रकार पाणिनीय निर्देश में गौरव स्पष्ट है ।