________________
५२४
कातन्त्रव्याकरणम्
इत्यन्वयान्निपात्यन्ते इत्यधिकारादिहार्थविशेषः प्रतिपत्तव्यः । तेन बहुशो मध्ये एकस्य द्वयोर्बहूनां वा प्रकर्षे वर्तमानात् तमप्रत्ययः । अयमेषामाढ्यतमः, इमावेषां पाचकतमौ, इमे एषां पाचकतमाः' । द्वयोर्मध्ये एकस्य प्रकर्षे वर्तमानात् तरप्रत्यय इति । अयमनयोराढ्यतरः, अयमनयोः पाचकतरः । कथं माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः । अत्रापि द्वयोरेकस्य प्रकर्ष इति न विरुध्यते | अवयवापेक्षया तु बहुवचनं राशिद्वयापेक्षया पृथग्भाव इति । तथा अस्माकं च देवदत्तस्य च देवदत्तोऽतिरूपतरः । दन्तौष्ठस्य-दन्ताः स्निग्धतरा इति समुदायादेकवचनम् । साङ्काश्यकेभ्यः पाटलिपुत्रेभ्यश्च माथुराः सुकुमारतरा इति द्वयोरेकस्यैव प्रकर्ष इति साङ्काश्यकानां पाटलिपुत्राणां च पाटलिपुत्रकाः सुकुमारतराः इति बह्वर्थापेक्षया तमप्रत्यय एव । एकस्याप्यवस्थाभेदेन नानात्वात् । पटुर्भवान्, पटुरासीत्, पटुतरः । ऐषमः इति । परमतमनुसृत्य दर्शितमिदम् । किमिह विवक्षया प्रकर्षमात्र एव दृश्यते । यथा अस्मिन् ग्रामे आढ्यतरा वणिजः सन्तीत्याह - प्रकृष्ट इत्यादि । प्रकृष्टानामपि पुनः प्रकर्षे तरतमौ भवतः एव । यथा - "युधिष्ठिरः श्रेष्ठतमः कुरूणाम्"। समानजातीयात्तु न भवतः, स्वात्मनि क्रियाविरोधात् ।
'तमादयः' इत्यादिग्रहणेन प्रत्येकं प्रत्यया विधेयाः । इष्ठस्यान्यद् वाक्यं तमस्याप्यन्यद् वाक्यं भिद्यते निपातनबलात् । तथेत्यादि । अत्रापि पूर्ववद् व्याख्यानम् । अयमनयोः पचतितराम्, अयमेषां पचतितमाम्, इमावेषां पचतस्तमाम्, इमे एषां पचन्तितमाम् । इदमनयोः किन्तराम्, इदमेषां किन्तमाम् । अत्र यदा गुणः पृच्छ्यते तदा गुणप्रकर्षे तराम्, तमाम् । यदा तु क्रिया तदा क्रियाप्रकर्ष एव तमाम् – पूर्वाह्नेतराम्, पूर्वाह्नेतमाम् । सप्तम्या अलोपः । ननु पूर्वाह्न ः कालः, कालश्च द्रव्यम्, न च द्रव्यस्य प्रकर्षोऽस्तीति, क्रियागुणयोरेव प्रकर्षात् ? सत्यम् । न ह्यत्र पूर्वाह्ने शब्दः प्रकृष्यते, फेन्तर्हि विवक्ष्योऽर्थः, स च गुण एव न द्रव्यम्, शक्तिरूपत्वात् । 'उच्चस्तराम्, उच्चस्तमाम्' इति उच्चैरित्यधिकरणप्रधानमव्ययम्, अत्राधिकरणशक्तेर्गुणस्य प्रकर्षः । यद्यपि क्रियागुणयोरेव प्रकर्षो न द्रव्यस्य, तथापि क्रियागुणग्रहणमुपचारनिवृत्त्यर्थं मतम् । तेन 'उच्चस्तरः, उच्चस्तमो वृक्षः' इति क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदा द्रव्यप्रकर्ष इति भावः । दृश्यते ह्याधेयधर्मस्याधार उपचारः। यथा मञ्चाः क्रोशन्तीति ।।४०६।