________________
कातन्त्रव्याकरणम
४४२ वृद्धिमतः शेषेऽर्थे ईयः स्यात् । अत एव वायसं काकमित्यादावाकारवतो दर्शितमुदाहरणमिति । शिवो देवता इत्यादि । यस्य हि शिवे भक्तिस्तस्य शिवो देवता, किन्तत्र भक्तिरिति वचनेनेत्याह-शिवो देवता अस्येति शैव इति ।
ननु देवता हि यागसम्प्रदानभूता, सम्प्रदानं च सम्प्रदेयापेक्षम् । सम्प्रदेयं च पुरोडाशादि, तत्र इन्द्रो देवता अस्येति ऐन्द्रं हविरिति युक्तम् । कथम् ऐन्द्रो मन्त्र इति । न ह्यत्र सम्प्रदेयत्वमस्तीति, तदयुक्तम् । यागसम्प्रदानभूता च देवतेति वार्तमेतत् । किन्तर्हि पूजार्हा हि देवता । पूजा च द्विविधा पुरोडाशादिभिः स्तुत्या च । तत्रेन्द्रः स्तूयते येन मन्त्रेण स तस्य देवतेति सिद्धम् । एवं सति शैव इत्यत्राप्यदोषः । एवमित्यादि । एवमादिर्यस्येति तस्येदमित्येवम्प्रकार आदिर्यस्येति विग्रहः । एवमादेराकृतिगणत्वात् "तत्र जातः" (२/६/७) इत्यादिष्वप्यर्थेष्वण् इत्याह - तत्र जात इति । यथा तिसृकायां जातस्तत्र भवस्ततो वा आगतः तैसृक इति । एवमन्येऽपि बहुलं शिष्टप्रयोगानुसारेण वेदितव्या इति ||३७३।
[क० च०]
पुस्तकान्तरे पाठः-रागा० । वाग्रहणं वाक्यभेदार्थम् । तेन यस्तु केवलं वेत्ति नाधीते, अधीते वा केवलं न वेत्ति तत्र प्रत्येकं विधिः स्यादिति । अथ तच्छब्दानुवृत्ती प्रत्येकं भविष्यति । यथा “तेन दीव्यति संसृष्टं तरति०" (२/६/८) इति चेत्, तर्हि प्रतिपत्तिगौरवं स्यादिति वाग्रहणम् । कौसुम्भम् इत्यादि । लाक्षारोचनाभ्यामिकण् एव क्रीतादेराकृतिगणत्वात् । लाक्षया रक्तं लाक्षिकम्, रोचनया रक्तं रौचनिकमिति टीका | इन्दुनैवेति । अन्तरङ्गसंबन्धादिति भावः । ननु "तस्य समूहः' (२/६/७) इति वचनात् परेण तस्येति षष्ठ्यन्तात् समूहेऽर्थे समूहिनोऽण् विधीयते । भवन्मते तद्वचनाभावात् कथं समूहिनोऽणित्याह - धर्मिणो ह्यभिन्न इति । धर्मिणं स-हिनमन्तरेण समूहाभावात् तस्यावकाशत्वादिति शेषः । शब्दार्थयोः संबन्धेनेति तस्येति षष्ठ्यन्तादिति शब्दस्य इदमिति त्वर्थस्य ।संबन्धेनेत्यर्थः । गण इति । एतेन तृतीयान्ताद् गृह्यते इत्यनेनैव स्यादिति बोद्धव्यम् । एवमादेरुदाहरणमाह -चक्षुषेति । तत्र भव इत्यादि । तत्र ज्ञातभवयोः को भेदश्चेत् ? सत्यम् । जातशब्दस्योत्पन्नार्थत्वेनातीतार्थत्वाद् भवशब्दस्य हि कालविशेषे व्युत्पन्नार्थत्वाभावात् सामान्यकालतेति । यद् वा जात इत्यस्याभूतप्रादुर्भावार्थः, भव इत्यस्य तु सत्त्वार्थकतेति भेदः । ननु तस्येदमेवमादेरण्णित्येतावन्मानं सूत्रमुच्यताम् ।