________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४४१ रागेण कुसुम्भादिना युक्तोऽपि वस्त्रादिरभेदोपचारादिह रागः। यथा दण्डयुक्तः पुरुषो दण्ड इत्याह -रागयोगाद् राग इति । यद्यपि रागादिति रागयुक्तादित्यर्थस्तथापि श्रुतत्वाद् रागवाचिनः शब्दात् प्रत्ययो न वस्त्रादिशब्दात् । कुसुम्भमेव कौसुम्भम् | हरिद्वैव हारिद्रमिति प्रत्ययस्तु स्वार्थिकत्वाद् द्योतको भवन्नादभेदोपचारहेतुकं रागेण योगमेव द्योतयति । अतस्तेन रक्तं रागाद् इत्यस्यार्थी युक्तितः सिद्ध इति । वस्त्वभेदं दर्शयन्नाह - कुसुम्भेनेत्यादि । यदि वर्णान्तरापादनमिह रओरर्थस्तर्हि कथं काषायौ गर्दभस्य कर्णी, हारिद्रौ कुक्कुटस्य पादौ इति । न ह्यत्र वर्णान्तरमापादितं तस्य स्वभावसिद्धत्वादित्याह - तद्गुणाध्यारोपादिति । तस्य काषायादिना रक्तस्य काषायादिशब्दवाच्यस्य पटादेर्यो गुणो वर्णान्तरापादनलक्षणस्तस्य सादृश्याद् गर्दभस्य कर्णादावध्यारोपस्तस्मात् काषायादिशब्दस्तत्रापि वर्तत इत्यर्थः । यथा गौर्वाहीक इति । गोर्गुणाध्यारोपाद् वाहीके पुरुषे गोशब्दो वर्तत इति । नक्षत्रस्येत्यादि । योजनं योगः संबन्धः, स चार्थद्वारक एवेति । इन्दुरयं नक्षत्राधिपतिः, स च क्रमशो नक्षत्राण्यधितिष्ठति । अतस्तेनैव योगोऽन्तरङ्गः इहाप्यभेदोपचारान्नक्षत्रयोगयुक्तोऽपि नक्षत्रयोग उच्यते । स पुनरभिधानात् काल इत्याहतत्सम्बन्धादिति, तेन नक्षत्रयोगेन सम्बन्धादित्यर्थः । पूर्ववदत्रापि स्वार्थिक एव प्रत्ययो द्योतकः । पुष्य एवाहः पौषमिति । तिष्यपुष्ययोर्नक्षत्रेऽणि यस्य विभञ्जनाद् इति वचनाद् यकारलोपः । यदा तु कालो नाभिधीयते पुष्येण चन्द्रयुक्तेन युक्तार्थसिद्धिः पुष्य इति विवक्षा तदा कालस्यानभिधानाद् बहिरङ्गत्वाद् वा तत्सम्बन्धस्याण् न भवति | तस्मान्नक्षत्रैरिन्दुयुक्तैः काल इति न वक्तव्यम् । अस्यार्थः सामर्थ्यलब्ध इति ।
अर्थस्याभेदं दर्शयितुमाह - पुष्येणेत्यादि । विकल्पनादिति “वाऽणपत्ये" (२/ ६.१) इत्यतो वाशब्द इह वर्तते । ततः पक्षेऽण् भवतीत्यर्थः, धर्मिणो ह्यभिन्नः समूह इति । हिशब्दो यस्मादर्थे । यस्माद् धर्मिणः सकाशात् समूहो धर्मो भेदेन नोपलभ्यते, तस्माद् धर्येव समूह इत्यभेदनिर्देशे बीजमिदमुक्तम् । एतेन समूहशब्दोऽप्यर्थपरो न शब्दपर इति दर्शितम् । इहापि स्वार्थे भवन् प्रत्ययो वायसादिशब्दानां समूहवर्तित्वं द्योतयति । वायसा एव वायसम् इति किन्तस्य समूह इत्युक्तेनाभेदनिर्देशादेव तदर्थस्य लब्धत्वाद् वायसानां समूह इत्यर्थः । ननु वायसानामयं समूह इति "तस्येदम्" (२ / ६/७) इत्यादिना सिध्यति । किनभेदेन (परेण) समूहग्रहणेन इत्ययुक्तं स्वराणामादावाद्