________________
४४०
कातन्त्रव्याकरणम् वा पूर्ववत् किं श्रवण-पुष्याभ्यामणो लुविधानेन । धर्मिणो ह्यभिन्नः समूह इति । एतेन समूहशब्दश्चार्थपर इति व्याख्यातं भवति । प्रत्ययस्तु स्वार्थिक एव पूर्ववत् । 'तस्येदमेवमादेः' इत्यादिना सिद्धम् । स्वराणामादावाद् वृद्धिमतः शेषेऽर्थे ईयोबाधनार्थं वचनम् । सेति प्रथमान्ताद् अस्येति षष्ठ्यन्तार्थेऽण् भवति तत् प्रथमान्तं देवतावाचि चेत् । इन्द्रो देवता अस्य हविषः, इन्द्रो देवता अस्य मन्त्रस्य इति विग्रहः । यस्य हि शिवे भक्तिस्तस्य शिवो देवतेति किं तत्र भक्तिरिति विशेषवचनेनेति भावः । नायं नियोगो यागसम्प्रदानभूतैव देवतेति अपि तु पूजार्हा । सा च द्विविधा माल्यादिभिः स्तुत्या च । इन्द्रः स्तूयते येन मन्त्रेण स ऐन्द्र उच्यते । तदिति द्वितीयान्ताद् वेत्यधीते वा अणिति । कथमेतत् प्रथमाद्वितीययोः समान रूपम् ? सत्यम् । सेति प्रथमान्तानुवृत्तौ यत् तदिति पुनर्वचनमाह - ततो द्वितीयान्तमिति निश्चीयते लिङ्गस्यातन्त्रत्वात् ।
ननु तच्छब्दोऽयं सामान्यवचनो न विशेषार्थमुपादत्ते, अव्यभिचारात् । यश्चार्थस्तच्छब्देनोपात्तस्तदभिधायिना एवाणा भवितव्यम् । न खलु छन्दआदयः शब्दाः सामान्यमभिदधति ? सत्यम् । न सामान्य कार्योपयोगित्वेनोपादीयते, अपि तु विशेषोपलक्षणार्थम् । कथन्नाम लघुनोपायेन सामान्याश्रया व्यक्ती : प्रतिपद्येरन्निति सामान्यमुपादीयते । यथा गौरनुबन्ध्योऽजोऽग्नीषोमीय इति सामान्यावच्छिन्नव्यक्तिविशेषसम्बन्धालम्बनं प्रतिपाद्यमिति जातिरुपादीयते, न च स्वकार्यप्रतिपत्त्यर्थं जातेरालम्भनादीनामसम्भवात् तथेदमपीति भावः । वाग्रहणं वाक्यभेदार्थम् । तेन यस्तु केवलं वेत्ति नाधीते, अधीते वा केवलं न वेत्ति तत्र प्रत्येकं विधिर्भवति । अथ तच्छब्दस्यैवानुवृत्तिः प्रत्येकं भविष्यति । यथा तेन दीव्यति संसृष्टं चरतीति, नैवं तत्रापिग्रहणं कृतं प्रतिपत्तिगौरवपरिहारावेति स्थितम् । तस्येदमिति । तस्येति विभक्तिनिर्देशः, इदमिति प्रत्ययार्थनिर्देशः । तस्येदमेवम्प्रकार आदिर्यस्येति विग्रहः । लोकोपचाराद् ग्रहणसिद्धौ लुविधाने च तथान्येऽपि दर्शिताः ।। ३७३ ।
[वि० प०]
रागात् । रञ्जिरयमनेकार्थो दृश्यते । तद् यथा आसक्तौ – वेश्यासु रक्तः इति । वर्णविशेषे - रक्ता गौर्लोहितवर्णा इत्यर्थः । वर्णान्तरापादने च – रक्तः पटः इति । इह पुनर्वर्णान्तरापादनमभिधीयते । अतो रज्यतेऽनेनेति रागः कुसुम्भादिर एवोच्यते । तेन