________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४३९ वर्णान्तरापादनमिह रओरर्थोऽभिधीयते इति भावः । रागयोगाद् राग इति । एतेन किमुक्तम्, अभेदोपचारोऽत्राभिधातव्यः । यथा दण्डयोगाद् दण्डः पुरुषः इति । अण्विधिस्तु श्रुतादेव रागवाचिनः शब्दाद् भवन् स्वार्थिकत्वाद् द्योतकत्वमापद्यते । "तेन रक्तं रागात्" (अ० ४/२/१) इत्यनेन योऽर्थः सोऽभेदोपचाराद् इत्यनेन लब्ध इति वस्त्व-भेदं दर्शयन्नाह - कुसुम्भेनेत्यादि । यदि वर्णान्तरमापद्यते येन स इह राग उच्यते तदा, 'काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादौ' इति न सिध्यति । न ह्यत्र वर्णान्तरमापादितम्, दैवनिर्मितत्वात् तेषामिति मन्यमान आह - काषायावित्यादि । यथा बाहीकेऽर्थान्तरे गोर्गुणेनाध्यारोप्य (गोत्वम्) गोशब्दः प्रयुज्यते – गौर्बाहीक इति । तथा काषायादिशब्दोऽपि गर्दभकर्णादाविति मन्यते । लाक्षारोचनाभ्यामिकणेव क्रीतादेराकृतिगणत्वात् । लाक्षया रक्तं लाक्षिकम्, रोचनया रक्तं रौचनिकम् । तथा शकलकर्दमाभ्यां वा - शाकलिकम्, शाकलम् । कार्दमिकम्, कार्दमम् । नीलीपीतीभ्यामण् - अकणाविति न वक्तव्यम् । नीलगुणयोगान्नीलम्, पीतगुणयोगात् पीतकम् । स्वार्थे को भवति । यदा तु नील्या पीतक्या वा वर्णान्तरमापादितमिति विवक्षा तदाप्यण् नास्ति, अनभिधानात् । नक्षत्रस्य योग इन्दुनैवेत्यादि । योग-शब्दसान्निध्यान्नक्षत्रशब्दोऽर्थवाची नक्षत्रविशेषवाचिना योगादित्यर्थः । इन्दुरयं नक्षत्राधिपतिः । क्रमशो नक्षत्राण्यधितिष्ठति यस्मादत इन्दुनैव योगोऽन्तरङ्ग इति भावः । नक्षत्रयोगयुक्तोऽत्र नक्षत्रयोग उच्यते स पुनः कालएवान्तरङ्गत्वादित्याह - तत्सम्बन्धादित्यादि । तेन नक्षत्रयोगेन सम्बन्धादित्यर्थः । अथवा सूत्रे नक्षत्रसमीपवर्तिनि शशिनि नक्षत्रशब्दः । तत्सामीप्यात् तद्व्यपदेशो लोके दृश्यते । तथापि पुष्येणाधीते, पुष्येण भुञ्जते इति पुष्ययुक्तेन चन्द्रेणेत्यर्थः प्रतीयते, तदा न योजनं योगः इति भावे घञ्, किन्तु कर्मणि । नक्षत्रेण युक्ताऽर्थ-सिद्धिः ।पुष्य इति विवक्षायामपि नैवाण, बहिरङ्गत्वाद् योगस्य । ___ रूटिशब्दा हि तद्धिता इति । कृत्तिकास्वित्यादि । विकल्पनादिति वाशब्दोऽत्र वर्तते, तेन पक्षेऽण् न भवतीत्यर्थः । अत्र 'कृत्तिका' इत्यादिशब्दोऽधिकरणार्थ इति भेदः । श्रवणा रात्रिरिति श्रवणायुक्ते चन्द्रमसि श्रवणाशब्दः श्रवणोऽत्रास्तीति अर्शआदित्वाद् व्युत्पाद्यते । यदा त्वभेदविवक्षा तदा श्रावणी रात्रिरिति विकल्पो