________________
४३८
कातन्त्रव्याकरणम्
३७३. रागान्नक्षत्रयोगात् समूहात् साऽस्य देवता । तद् वेत्त्यधीते वा तस्येदमेवमादेरणिष्यते [२/६/७ ] [ सूत्रार्थ ]
रागयुक्त शब्दों से रक्त अर्थ में, नक्षत्रवाची शब्दों से युक्त अर्थ अधीते वा, तस्येदम्' आदि अनेक
में तथा 'समूह, साऽस्य देवता, तद्वेत्ति अर्थों में अण् प्रत्यय होता है ।। ३७३ ।
[दु० वृ०]
रागयोगाद् रागः । कौसुम्भम्, हारिद्रम् | कुसुम्भेन हरिद्रया वा रक्तमित्यर्थः । कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादाविति ? तद्गुणाध्यारोपात् । नक्षत्रस्य योग इन्दुनैव तत्सम्बन्धात् कालोऽभिधीयते । अविधिस्तु श्रुतादेव नक्षत्रशब्दात् । पौषमहः, पौषी रात्रिः, तैषमहः, तैषी रात्रिः । पुष्येण चन्द्रयुक्तेन युक्ता रात्रिरित्यर्थः । “कृत्तिकासु विशाखासु मघासु भरणीषु च " इति नक्षत्रशब्दैरभेदोपचारात् | यद्यपि कालाभिधानं तथाप्यण् नास्ति विकल्पनात् । धर्मिणो ह्यभिन्नः समूहः । वायसम्, काकम्, भैक्षम्, यौवतम् । शिवो देवता अस्येति शैवः । एवम् ऐन्द्रं हविः, ऐन्द्रो मन्त्रः । छन्दो वेत्ति अधीते वा छान्दसः । एवं वैयाकरणः । मृगस्येदं मार्गं मांसम् । एवं शौकरम् ।
एवमादिर्यस्येति शब्दार्थयोः संबन्धेन गणो गृह्यते । चक्षुषा गृह्यते चाक्षुषं रूपम् । एवं श्रावणः शब्दः । दृशदि पिष्टाः दार्शदाः सक्तवः । उदूखले क्षुण्णा औदूखला मुद्गाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् | चतुर्दश्यां दृश्यते रक्षः चातुर्दशम् । तत्र भवस्तत्र जातस्ततो वा आगत इत्यादि विग्रहः कार्यः । आकृतिगणोऽयम् || ३७३ ।
[दु० टी०]
रागा० । रज्यतेऽनेनेति रागः । करणसाधनोऽयम् | अर्थस्य चेदं ग्रहणम् अभिधानादिति कषायादिरुच्यते । रजिरयमस्त्येवाऽऽसक्तौ यथा योषिति रक्तः । वर्णविशेषे च यथा रक्तो गौर्लोहित इति । अथ वर्णान्तरापादने च यथा रक्तः पद इति ।