________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४४३ राजादीनामर्थानामेवमादौ प्रवेशे साध्यस्य सिद्धत्वाद् अथविशेषा अपि एवमादेराकृतिगणत्वाल्लब्धव्याश्चेत्, नैवम् । कुसुम्भेन रक्तं कौसुम्भम्, तस्येदमित्यर्थे स्वराणामादावाद् वृद्धिमतः इति ईयप्रत्ययबाधनार्थं रागादीनामुपादानम् । कौसुम्भस्येदमित्यर्थे वाक्यमेवेति टीकाकृतोऽपि हृदयम् ।
__ रागात् । करणसाधनोऽयमर्थपरोऽपि रागशब्दो रज्यतेऽनेन रागो वर्णान्तरापादनमुच्यते । रागयोगाद् राग इत्युक्तम्, ततो वस्त्राभ्यन्तरकुसुम्भादिः स्यात् तदापि योगोऽस्तीति कथन्न स्यात्, नैवम् । योगसंबन्धो हि क्रियाद्वारक एव तत्पुनरस्य व्यञ्जकसंबन्धः पूर्व एवात्र ततो वर्णान्तरापादनमेव प्राप्तम् यदुक्तं ‘दण्डः पुरुषः' इति दृष्टान्तं तदपि लक्षणाद्वारेणैव न सर्वथापादनसादृश्यम् । अथ कथं लक्षणा, सा हि मुख्यार्थबाधे स्यात् । न ह्यत्र रागशब्दार्थो न घटते ? सत्यम्, सा हि तात्पर्यानुपपत्तिपूर्विकाऽपि स्यात्, ईषत् प्रणीतं साध्यं तत्प्रयुक्ततात्पर्यं तस्यानुपपत्त्या लक्षणा स्यात् । तथा चोक्तम् -
काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि चोदितः।
उपघातस्य प्राधान्याच्छागेम्यः किन्न रक्षति ॥ (वा० प०२/३१२)। ___ अत्रान्नरक्षणमेव प्रयोक्तृभिः प्रतिपाद्यम् । अथ तथापि घटादेः कथन्न स्यादित्याह - श्रुतत्वादित्यादि । रागशब्दस्य श्रुतत्वात् तद्वाचकस्यापि श्रुतत्वं वर्णान्तरापादनं वर्णान्तरसमवायो न कथं गुणः ? सत्यम् । लक्षणपदेनात्र चिह्नमुच्यते । वर्णान्तरापादनेन लक्ष्यते वर्णान्तरस्यैव तत्स्वरूपश्च गुणः । तद्गुणेत्यादि । अथ कथमन्यस्य गुणोऽन्यस्मिन्नध्यारोप्यते नहि पटस्य शुक्लत्वं घटे आरोपयितुं पार्यते ? सत्यम् । अत्र लक्षणा वर्तते, सा हि द्विविधा - शुद्धा गौणी च । 'गङ्गायां घोषः' इति शुद्धा, गौणी- 'गौर्वाहीकः' ? सत्यम् । अत्र लक्षणया जाड्यमान्द्यादिरुच्यते । देवदत्तस्य गोः सामानाधिकरण्यसत्त्वेऽपि जाड्यमान्द्यद्वारेणैव गुणी स्यात् । पूर्वत्र पुनः संबन्धः समीपगामिपर इति भेदः । अतो गौणी लक्षणा, पटादेर्यो गुणो रक्तादिस्तस्याध्यारोपप्रयोजनम् अतिशयेन रक्तत्वप्रतिपादनम् । तथा चोक्तम् -
स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ (का०प्र०२/१०)।