________________
४४४
कातन्त्रव्याकरणम्
यथा - कुन्ताः प्रविशन्ति, गङ्गायां घोषः । लक्षणा किन्तु मुख्यार्थ एव । तथा चोक्तम् -
मुख्यसंकेतितं केचित् ख्यातिख्यातस्य चान्यथा।
सर्वत्र लक्षणा नैव परत्वे वस्तुलक्षणा ॥इति । उपचारगौणानां प्रस्तावाद् भेदः कथ्यते । उपचारगौणौ लक्षणाया भेदौ । सर्वत्र मुख्यार्थबाधेनैवान्यार्थप्रतीयमानयोरेकार्थाभिधानमुपचारः । यथा चन्द्रमुखं चन्द्राभिन्नमुखं भिन्नं तयोरेकार्थाभिधानयोरुपचारः प्रवर्तते । 'गङ्गायां घोषः' इत्यत्र लक्षणा पुनः पदद्वयस्य सद्भावो नास्ति किन्त्वेकस्मिन् गङ्गापदे लक्षणेत्युपचारेण भेदः । ननु यद्येवं भेदोऽस्तु कथं गङ्गासमीपो देशो गङ्गेत्युपचारादिति पञ्याम् । न ह्ययमुपचारः पूर्वलक्षणायोगात् ? सत्यम् । स्वार्थबाधेऽन्यार्थसंवादनमुपचारः इति येनोच्यते । गौणो यथाऽन्यार्थप्रतीयमानयोर्द्वयो!च्चारणम्, किन्तु प्रकरणसाचिव्येन बुध्यते गौणः । यथा गौरयमिति प्रस्तावेन पुरुषो बुध्यते ।
ननु द्वयमिति निर्देशाद् द्वयोरपि साक्षान्निर्देशस्तत्कथं घटते पूर्वव्याख्यानेनैवायमित्यनेन साक्षात् पुरुषो नोच्यते किन्तु गोविशेषणमपि घटते, किन्तु प्रस्तावात् पुरुषप्रतीतिः । “तेन रक्तं रागात्" (अ० ४/२/१) इति परः । अस्यार्थः- रागवाचिनः शब्दात् तेन युक्तमित्यर्थे प्रत्ययः स्यादित्यर्थः । नक्षत्रैरिन्दुयुक्तैः कालः इति सहार्थे तृतीयेयम् ।इन्दुयुक्तैर्नक्षत्रैः सह कालेऽभिधेये प्रत्ययः स्यादिति । तदस्मन्मते कथमित्याह - योगः संबन्ध इत्यादि । अत उभयं विना न स्याद् इन्दुनेति प्राप्तं तत्संबन्धादिति । नक्षत्रयोगशब्देन लक्षणया तत्कालवाचकनक्षत्रे नक्षत्रशब्दो वर्तते । कालोऽभिधीयते इति यदुक्तं तद्विशेषणरूपमिति बोद्धव्यम् । यथा वृक्षशब्दोक्तौ वृक्षत्वमप्युच्यने । यदि काल एवाभिधीयते इत्युच्यते तदा पुनर्लक्षणा न स्यात्, मुख्यार्थबाधे तस्याभिधानात् । अथ नक्षत्रयोगशब्देन यदुक्तं तत् पुष्यशब्देन कथमुच्यते ? सत्यम् । अनयाऽपि तात्पर्यानुपपत्त्या लक्षणा स्यात्, ततः पूर्वोक्तार्थे वृत्तिः नीलेन रक्तमिति । अत्र नीलमिति न स्यात् परेणात्र तद्धितलुग् विधीयते । तस्येति अस्मन्मते भेदोपचारेणैव प्रवर्तते । धर्मेणेति | अथ "तस्य समूहः" (अ० ४/२/३७) इति परसूत्रम् । समूहेऽर्थे प्रत्ययः । भवन्मते कथं समूहो धर्मस्तस्माद् भवितुं न पार्यते किन्तु तद्वाचकात्, तदा समूहशब्दात्