________________
४४५
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः स्यात्, नैवम् । अभेदेन यः शब्दः समूहं वक्ति तेनैव समूहशब्देन स्वार्थाभिधेय उच्यते । सर्वं देश्यं निरस्यति धर्मिण इति । अथ भिन्नत्वं कुतो भेदाभावात्, भेदाभावः कथमिति चेदुच्यते -अत्र अद्वैतवादिनो मते एवं भेदखण्डनम् ।
तथाहि धर्मधर्मिणोभेदः अभेदो वा भेद इति चेत् तर्हि भेदप्रयोजकधर्मो वाच्यः स किमन्ययोभिन्नः अभिन्नो वा भिन्न इति चेत् तदात्रापि भेदप्रयोजकधर्मो वाच्योऽनवच्छेद्यादृतो भेदः । वैयाकरणानान्तु मते धर्मिणो धर्मस्तु पृथक् न स्यात् पृथक्त्वेनानुपलम्भात् । तथा ब्राह्मणसम्बन्धायार्थः प्रदीयतां ब्राह्मणेभ्यश्च न प्रदीयतामिति विधिनिषेधवाक्ये भेदेन गृह्यते । यथा देवत्तयज्ञदत्तयोर्भेदस्ततो यज्ञदत्ताय प्रदीयतामित्युक्ते देवदत्ताय न प्रदीयते, अतो वायसपदेन न वायससमूह उक्त इति पक्षेऽण् । भैक्षं यौवतमिति यदुक्तं तत् स्थिते एतदपि विषयीकरोतीति ।
साऽस्येति । अथ कस्मात् स्यादण्प्रत्ययः श्रुतत्वादेव देवतावाचकात् स्यादेवेति चेत्, नैवम् । अस्येत्यनेन देवताया अपि श्रुतत्वम् ? सत्यम् । 'सा' इत्यनेनोपस्थापिताया देवताया एव मुख्यत्वप्रतिपाद्यत्वाद् अतस्तस्मादण् स्यादिति । यद् वाऽस्येति प्रथमान्तमनुकृत्य लुप्तपञ्चम्येकवचनं पदं देवतात्वेनानुभूतत्वात् प्रत्ययः स्यात्, अस्य देवतेत्यर्थेऽस्मिन् पक्षे प्रकरणबाधो न सर्वत्र पञ्चमी कार्यिपदादिति । तर्हि देवतायामभिधेयायाम् अण् कथं गौरो देवदत्तः' इति । किन्तु 'शैव' इति, शिवो देवताऽस्येत्यर्थः स्यात् ? सत्यम् । अस्य देवतेति गम्यमानार्थोऽयम् । अस्य देवतेति गम्यमानेऽण् स्यात् तदेव गम्यमानत्वमाराध्याराधकसम्बन्धे आराध्याराधकेऽण् स्यादित्यर्थः । ‘माघवतः' इत्यादौ कथं देवतार्थेऽण् इति ? सत्यम् । प्रवृत्तिनिमित्तत्वेन देवतापि स्यात्, नहि प्रवृत्तिनिमित्तत्वं विहायास्ति अण् । वृक्षत्ववद् वृक्षस्येति गम्यमानत्वं देवतार्थस्येति समाम्नायविदः।
कश्चिद् आह - अस्येत्याराध्याराधकसम्बन्धे षष्ठी, सम्बन्धस्य द्विष्ठत्वाद् आराधकेऽपि स्यादिति । यागसम्प्रदानभूतेति एतत्पक्षे 'शैवः' इत्यत्रापि न दूषणम् । आराध्याराधकसंबन्धे स्यात् । वार्तमेतदिति निष्फलमित्यर्थः । यतोऽत्र ग्रहादावतिव्याप्तिः, सोऽपि यागसम्प्रदानभूत इति । भूतेत्यादि । पूजा द्विविधा - द्रव्यादिना, स्तुत्यस्तवनसंबन्धेन च । यद्येवम् एतत्पक्षे ग्रहादावतिव्याप्तिः स्यात् ? सत्यम् । यागेषु मुख्यत्वे