________________
३५९
नामचतुष्टयाध्याये पचमः समासपादः पदार्थ उच्यते इति विवक्षया स्यादित्यर्थः । अनव्ययमव्ययं भवतीति भुवो णप्रत्ययश्च्वावस्येत्त्वम् ।पूर्वपदमव्ययं परपदमनव्ययं तद्वशेन समुदायोऽनव्ययोऽप्यव्ययत्वं प्रतिपद्यते इति प्रक्रियावादः । परमार्थतस्तु स्वभावादेवाव्ययत्वमवगन्तव्यम् । अव्ययपूर्वपदं दर्शयति - यथाभिधानं कारक इत्यादि । कारकार्थे यदव्ययमिति ।स्त्रीषु कथा प्रवृत्तेति नित्यसमासत्वाद् अस्वपदविग्रहेणार्थयते । अधिशब्दोऽधिकरणे वर्तते तत्सा-मानाधि-करण्यात् स्त्रीशब्देन सप्तम्यन्तेन समासः ।
कश्चिद् आह - प्रथमान्तेनैव समासोऽधिनैवाधिकरणार्थस्योक्तत्वात् । तदेतदुभयमपि प्रक्रियायाम् । समीप इति समीपार्थे यदव्ययमिति । समीपसम्बन्धे षष्ठीकुम्भस्य समीपम् उपकुम्भम् । ऋद्ध्यर्थे यदव्ययमिति ।ऋद्धिर्दिधा-समृद्धिरात्मभावसम्पत्तिश्च | सुमद्रम्-मद्राणां समृद्धिरित्यर्थः । आत्मभावसम्पत्तौ च-सब्रह्म, सम्पन्नं ब्रह्मशरीरमित्यर्थः । सहस्य सभाव एव । अभावार्थे यदव्ययमिति । स च सम्बन्धिभेदाद् बहुविधः । यद्यप्यभावस्य निरूपकत्वेन नास्ति भेदः, तथापि यस्यासावभावः स सम्बन्धी भिद्यते । तभेदाच्याभावस्याप्युपकल्पितो भेदः । अत्यन्ताभावे-अभावो मक्षिकाणां निर्मक्षिकम् इत्यर्थः । तथेत्यादि । ऋद्ध्यभावोऽतिक्रमाभावः संप्रत्यभावश्चेति । अर्थाभावः क्वचिद् देशे सर्वथै-वाभावो वस्तूनां न तूत्पन्नस्य पश्चादिति भावः । सम्प्रत्यभाव इति उपभोगस्य यो वर्तमानः कालस्तस्य प्रतिषेधः । तिसृका नाम ग्रामस्तत्र भवस्ततो वा आगत इत्यण् । अथेतरेतराभावे धर्मभावे च कथन्न संज्ञेयम् ? सत्यम् । तुल्याधिकरणत्वात् कर्मधारयस्य विषयः । गौरश्वो न भवति, क्षत्रियो ब्राह्मणो न स्यात् । अथवा अभावो बहुविध इति किमनया चिन्तया यथाभिधानमेव युक्तम् । पाणिनिशब्दो नाम प्रादुर्भूतः, ख्यातिं गत इत्यर्थः । पश्चादर्थे यदव्ययं रथस्य पश्चादित्यर्थः । यथार्थे यदव्ययमिति । यथार्थोऽनेकप्रकारः- योग्यता-वीप्सा-पदार्थानतिवृत्ति-आनुपूर्व्य-सादृश्यभेदात् । अर्थमर्थं प्रति' इति प्रतेर्वीप्सायां कर्मप्रवचनीयसंज्ञाभ्युपगमबलाद् वाक्यमपि । यथाभिधानमिति वा । अथवा वीप्सायां यदव्ययं वर्तते तदा समासः । इह तु कर्मप्रवचनीयः संबन्धस्य भेदक इति समासेनैव वीप्सा उक्तेति न द्विवचनम् । यथाशक्तीति । शक्तिः सामर्थ्यम्, तस्यानति