________________
३६०
कातन्वव्याकरणम् वृत्तिरनतिक्रमः ।अनुज्येष्ठमिति | आनुपूर्व्यमनुक्रमः । सकिखीति ।सहशब्दस्य तदर्थस्य समासः।
कश्चिद् आह - सदृशः किख्या सकिखीति गुणीभूतेऽपि समासोऽयमिति । तदिह सत्त्वभूतत्वान्न प्राप्नोति ? सत्यम् । क्वचिदभिधानात् सत्त्वभूतेऽपि दृश्यते । यथा-शब्दस्य सादृश्ये न भवति । यथा देवदत्तस्तथा यज्ञदत्त इति । अन्यस्त्वाहयथाशब्दोऽयमुपमानार्थः । यथा देवदत्त स्तथा यज्ञदत्त इति एतदुपमेयमपेक्षते सापेक्षत्वाच्चासम्बन्धः इति , तदयुक्तम् । यथा देवदत्त इति समुदाय उपमानवचनस्तेन तस्यैवोपमेयसापेक्षत्वाद् असम्बद्धता, न यथाशब्दस्य | थाप्रत्ययान्तोऽयं यथाशब्दः सदृशवाची स्वभावाद् गुणवचनवदाश्रयार्थोऽव्युत्पन्नादव्ययादन्यः | साकल्यं परिग्रहापेक्षयाऽशेषग्रहणम् । सतृणमभ्यवहरतीति यावदभ्यवहार्यं परिगृहीतं ततस्तृणादिकमपि न परित्यजतीत्यर्थः । न पुनर्जगति यावदभ्यवहार्यं किञ्चिदस्ति तत् सर्वं तृणान्वितमभ्यवहरतीति प्रतीयते । एवं पर्यन्तप्रतिपादनेऽपि साग्न्यधीते, अग्निग्रहणपर्यन्तमित्यर्थः ।
___ कश्चिद् आह-सतृणमभ्यवहरतीति न किञ्चिद् अभ्यवहार्यं त्यजतीत्यधिकरण-वचनमेतत् । अन्त इति परिग्रहापेक्षया समाप्तिरिति भिद्यते । का नः क्षतिरिति यथाभिधानं तर्हि भविष्यति । एवमन्येऽपीति । यौगपद्ये यदव्ययम् – सचक्रं धेहि | चक्रेण सहैककालं घेहीत्यर्थः । यावदियत्त्वेऽव्ययम् । इयत्त्वं भाजनानाम् – यावद्भाजनं ब्राह्मणानामात्रयस्व । इयतो भावः इयत्त्वम् । भाजनेयत्तया ब्राह्मणेयत्ता विवक्षितेति यावच्छब्द इयत्त्वे वर्तते । यावद्दत्तं यावद्भुक्तं कियद्दत्तं कियद्भुक्तम् इतीयत्त्वं नास्ति यदि समासस्य कर्मधारयस्य विषयः । 'सूपप्रति, शाकप्रति' इति प्रतिना स्तोकार्थेन समासो नित्यमेव । यस्य तत् स्तोकं तस्य षठ्यन्तस्य तत्पुरुष एव । अव्ययीभावसंज्ञायां नास्ति प्रयोजनमिति । प्रतिसूपमिति च स्तोकार्थे खलु नास्त्यव्ययीभावोऽभिधानात् । तथा अक्षशलाकासंख्यानां परिणा द्यूतेऽन्यथावृत्तौ तत्पुरुष एवाभिधीयते नित्यम् । पत्रिका नाम यूतं पञ्चभिरक्षः शलाकाभिर्वा भवति । यदा सर्वा उत्ताना अवाङ्मुखा वा भवन्ति तदा पातयिता जयति । ततोऽन्यथावृत्तौ अक्षादीनां करणत्वं कर्तृत्वं वेति तृतीयान्तता, वृत्तौ संख्याविशेषानवगमाद् अक्षशलाकयोरेकवचनान्तयोरेव समासः । अक्षपरि, शलाकापरि हारितम् एकपरि, द्विपरि, त्रिपरि, चतुष्परि । क्रमेणाक्षेण तथा वृत्तं यथा पूर्वम् । एकया शलाकया न तथा वृत्तं यथापूर्वमित्याद्यर्थदर्शनं कर्तव्यमिति ।