________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
अपपरिबहिरञ्चनां पञ्चम्यन्तेन समासोऽव्ययीभावो भवत्येव । वाक्यमप्यर्थतो दृश्यते । अप त्रिगर्तेभ्यः, अपत्रिगर्तं वृष्टो देवः । परि त्रिगर्तेभ्यः, परित्रिगर्तं वृष्टो देवः । बहिर्ग्रामात्, बहिर्ग्रामम् । प्राग् ग्रामात्, प्राग् ग्रामम् । अपपरिभ्यां पर्यपाङ्योगे पञ्चमी । बहिर्योगेऽवधेरेव विवक्षितत्वात् प्राग्योगे दिग्लक्षणैव पञ्चमी । प्राञ्चतीति क्विप् । सप्तमीपञ्चमीप्रथमान्ताद् दिग्देशकालेष्वस्तातिः, तस्याञ्चतेर्लुक् निपातनात् । अभिप्रत्योर्लक्षणेन समासाभिधानम् । अग्निमभि, अग्निं प्रति । अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति । अग्निरत्र लक्षणम्, तन्निमित्तीकृत्य शलभाः पतन्तीति । अभिप्रती आभिमुख्य एव वर्तेते । स्रुघ्नं प्रतिगत इति स्रुघ्नान्मथुरां प्रस्थितो दिङ्मोहात् सुघ्न एव निवर्तते इति नात्र लक्षणम् । किञ्च गमिना सम्बन्धः प्रतेरिति सापेक्षता । 'अभ्यङ्काः, प्रत्यङ्का गावः' इति अभिनवोऽङ्क आसामिति अभिशब्दोऽभिनवार्थे गवाङ्कश्च लक्षणम् । किन्त्वन्यपदार्थत्वाद् बहुव्रीहिः । अनुर्यस्य सामीप्यायामवृत्तिस्तेन नाम्ना समस्यते । वनस्यानु अनुवनम् अशनिर्गतो वनस्य सामीप्येनेत्यर्थः । गङ्गाया अनु अनुगङ्ग वाराणसी, गङ्गाया आयामेन युक्ता वाराणसी सोऽयमित्यभेदसम्बन्धाद् आयामशब्देनोक्ता तस्मान्नास्त्यत्र भेदाभावाल्लक्ष्यलक्षणभाव इति प्रथमैव । अन्यथा भेदलक्षणा षष्ठी स्यात् । अनुगङ्गं वाराणस्या इति । कश्चिद् आह - आयामितया प्रसिद्धा गङ्गा न तु वाराणसी । प्रसिद्धं हि लक्षणं भवति । अनुशब्देन गङ्गाया आयाम उच्यते, तद्वत्या गङ्गया लक्षणभूतया वाराणसी आयामवती लक्ष्यते इति विवक्षा सिद्धा तदा लक्षणे द्वितीयेति । पारेगङ्गायाः पारेगङ्गम् । मध्ये गङ्गाया मध्येगङ्गम् । पारे - मध्येशब्दौ अव्ययावधिकरणप्रधानौ इह प्रतिपत्तव्यौ । तेनानयोः षष्ठ्यन्तेन समासः सिद्धोऽव्ययीभावश्च भवतीति । तिष्ठद्गुप्रभृतीनां समासस्याव्ययीभावत्वं लोकोपचारात् । तिष्ठन्ति गावो यस्मिन् दोहाय स तिष्ठद्गु कालः । एवं वहद्गु । आयन्ति गावो यस्मिन् आयतीगवम् । आङ्पूर्वस्येणः शन्तृङन्तस्य तथा न पुंवद्भावः, राजादित्वाद् अत् । नित्यसमासत्वादेषां वाक्यान्तरेण विग्रहः खलेयवम्, तथा सप्तम्या अलोपः । लूयमानयवं लूनयवम्, पूतयवम्, संक्रीयमाणयवम्, संक्रीतयवम्, संक्रीयमाणबुषम्, संक्रीतबुषम् । सर्वेषामुक्तानां कालेऽन्यपदार्थः ।
३६१