________________
३६२
कातन्त्रव्याकरणम्
तथा संख्याया वंशेन समासस्य च - द्वौ मुनी द्विमुनि व्याकरणस्य वंश्यौ । द्विमुनि व्याकरणस्य, द्विमुनि व्याकरणम् इति वा । विद्यया जन्मना वा एकलक्षणः सन्तानो वंशः, तत्र वियैकलक्षणो वैयाकरणवंशः उपाध्यायवंशस्तत्र भवौ द्वौ मुनी, ताभ्यां समासः, संबन्धे षष्ठी यदा तु विद्यावतो विद्यया सहाभेदस्तदापि समास इति भावः । यदा तु बहुव्रीहिः, द्वौ मुनी वंशौ यस्य तद् द्विमुनि व्याकरणमिति । तदा तु नाव्ययीभावत्वं सिद्धम् । तथा नदीभिः समाहारे । द्वयोर्यमनुयोः, तिसृणां यमुनानां वा समाहारः-द्वियमुनम्, त्रियमुनम् । बहुव्रीहौ तु संज्ञायाम्-उन्मत्तगङ्गम्, लोहितगङ्गम् । नहि वाक्यं संज्ञेति नित्यसमास एव ।
[वि० प०]
पूर्वम्। अनव्ययमव्ययं भवतीति च्चिप्रत्ययान्ताद् अव्ययशब्दाद् "भुवो वा ज्वलादिदुनीभुवो णः" (द्र०, अ० ३।१।१४०) इति णप्रत्ययः । पूर्वपदमव्ययं परपदमनव्ययं तद्वशेन समुदायोऽनव्ययोऽप्यव्ययो भवतीति अव्ययीभावः । अन्वर्थसंज्ञाबलात् प्रायेणाव्ययमेव पूर्व भवति, अतः कारकादिष्वर्थेषु वर्तमानं यदा तदैव समस्यते । यथाभिधानमित्याह – कारक इत्यादि । ऋद्धाविति ऋद्ध्यर्थे यदव्ययमित्यर्थः । ऋद्धिश्च द्विधा-समृद्धिरात्मभावसम्पत्तिश्च । सुमद्रमिति । समृद्धिर्मद्राणाम्, ऋद्धराधिक्यमित्यर्थः । आत्मभावसम्पत्तौ च सम्पन्नं ब्रह्म सब्रह्म इत्यादि द्रष्टव्यम् । सम्पन्नं ब्रह्मशरीरमित्यर्थः । ज्ञापकस्य लक्ष्यानुरोधाद् अव्ययीभावस्य काल इति नित्यं सहस्य सभावः । अभाव इति निरूपणत्वेन यद्यप्यभावस्य भेदो न संभवति, तथापि सम्बन्धिभेदाद् भिद्यते । अत्यन्ताभाव ऋद्ध्यभावोऽतिक्रमाभावः सम्प्रत्यभावश्चेति क्रमेण दर्शयति । तत्रात्यन्ताभावः क्वचिद् देशेऽत्यन्तं वस्तूनामभावो न तूत्पन्नानाम् । यथा - 'निर्मक्षिकम्' इति मक्षिकाणां सर्वथाभाव इत्यर्थः । अतिक्रमाभाव इति । अतिक्रमो भूतत्वं स एवाभावः । आतेतैसूकम् इति । तिसृका नाम ग्रामस्तत्र भवस्ततो वागत इत्येवमादित्वादण् । न सम्प्रत्युंपभोगकाल इत्युपभोगस्य वर्तमानकालनिषेधस्तैसृकाणामाच्छादनानामयमुपभोगकालो न भवति इत्यर्थः । अब्राह्मण इत्यादा-वितरेतराभावे नास्ति समासाभिधानम् । शब्देत्यादिपाणिनेः शब्दः प्रादुर्भूतः पाणिनिरित्ययं संज्ञाशब्दो लोके स्पष्टं गतः इत्यर्थः ।
पश्चादिति । रथस्य पश्चादित्यर्थः । यथार्थ इति । योग्यतावीप्सापदार्थानतिवृत्तानुपूर्व्यसादृश्यभेदाद् यथार्थोऽनेकप्रकार इति क्रमेणोदाहरति - अनुरूपमित्यादि । साकल्य