________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३६३ इति । परिग्रहापेक्षयाऽशेषग्रहणं साकल्यम् । सतृणमभ्यवहरतीति यावदभ्यवहार्यं परिगृहीतं तत्र तृणादिकमपि न त्यजतीत्यर्थः । साग्न्यधीते इति । पर्यन्तप्रतिपादनेऽपि समासः । अग्निग्रहणपर्यन्तमधीते इत्यर्थः । इहापि पूर्ववत् सहस्य सभावः । एवमन्येऽपीति यौगपद्ये यदव्ययं तदपि समस्यते अव्ययीभावश्च समासो भवति । सचक्रं देहि । चक्रेण सहैककालं देहीत्यर्थः । यावदियत्त्वेऽव्ययम्, इयत्त्वं भाजनानां यावद्भाजनं तावद्ब्राह्मणानामन्त्रयस्व | इयतो भावः इयत्त्वम् ।भाजनेयत्तया ब्राह्मणेयत्ता विवक्षितेति । यावच्छब्द इयत्त्वे वर्तते । इयत्त्व इति किम् ? (यावद्भुक्तं कियद्दत्तम्) यावद्दत्तं कियद्भुक्तमिति नावधारयति, यदि समस्यते तदा कर्मधारयस्यैव विषयः । एवमन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इति ।। ३५१ ।
[क० च०]
पूर्वम् । यद्यपि अधिस्त्रीत्यत्र स्त्रीशब्दस्य विशेष्यत्त्वेन प्रतीतिस्तथापि स्त्रीविषये कथा प्रवृत्ता इत्यधिकरणार्थप्रधानत्वाद् विशेषणत्वमिति । समीप इति वृत्तौ सामीप्यपरः । अव्ययीभावसूत्रे सामीप्यमत्र प्रधानमित्युक्तत्वात् । ननु यदि यस्य समासस्य पूर्वपदार्थो वाच्यो भवेत् सोऽव्ययीभाव इत्युच्यते, तदा दन्तानां राजा 'राजदन्त.' इत्यत्रापि अव्ययीभावः स्यादित्याह – पूर्वपदमव्ययमित्यादि । तद्वशेनेति अव्ययपूर्वपदार्थप्रधानवशेनेत्यर्थः । प्रायेणेति तेन 'द्विमुनि, त्रिमुनि' इत्यत्रापि अनव्ययपूर्वपदस्यापि समास इति निश्चितम्, ननु यद्यन्वर्थबलादव्ययपूर्वपदार्थे वाच्येऽव्ययीभाव इत्युच्यते, तदा ‘अतिखट्वः' इत्यत्रापि स्यादित्याह- यथाभिधानमिति । एतत्तु इष्यते इत्यस्योपादानात् सिध्यतीति भावः । अत्र “अव्ययं विभक्तिसमीपसमृद्ध्यर्थभावात्मभावसम्पत्तिशब्दप्रादुर्भावपश्चाद्यथार्थानुपूर्वयोगपद्यसादृश्यसाकल्यपर्यन्तेयत्त्ववचनेषु" इति 'पाणिनिसूत्रम् । एतदनुसारेणैव वृत्तिकृता कारके स्त्रीष्वित्यादिना ‘अधिस्त्रि' इत्युदाहृतम् । आत्मभावसम्पत्तिश्चेति आत्मभावः स्वभावो यस्य प्रवृत्तिनिमित्तमिति । सम्पत्तिरुत्कृष्टता । सब्रह्मेति । ब्राह्मणानां प्रवृत्तिनिमित्तरूपं ब्रह्म सम्पन्नमुत्कृष्टम् इत्यर्थः । एतदेवाह - सम्पन्नं ब्रह्मशरीरमिति ब्रह्मशरीरं ब्रह्मस्वरूपमिति यावत् ।। ३५१।
अव्ययं विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्नवचनेषु (अ०२/१/६)।