________________
कातन्त्रव्याकरणम्
“अन्यस्माल्लुक्” (२।४।३) इत्यपनीय अन्यतो लुगिति क्रियताम् । ततश्च पारिशेष्यादकारान्तादेवात्राम् भविष्यति, किमकारान्तग्रहणेन । एवं च सति तत्र किमपेक्ष्यान्यत्वं ग्राह्यमिति व्याख्यालाघवं भवति ? सत्यम् । तत्राकारवर्जनाद् यादृग्जातीयस्येति न्यायात् स्वरान्तादेव लोपः स्याद् इत्यपि संभाव्यते । ततश्च व्यञ्जनान्ताल्लोपो न स्यादिति दोष: स्यात् । किञ्च "अव्ययाच्च" (२।४।४) इत्यत्रानतः इत्यनुवर्तनादकारान्तादव्ययाद् विभक्तेर्लोपो न स्यात् । ____ अव्ययीभावादिति वृत्तिः। अथाकारान्ताद् विभक्तीनामित्युक्तेऽसमासे वृक्षशब्दादपि कथन्न स्यात्, नैवम् । जसीत्यादिविधानादिति चेत्, पाक्षिकं भवतु । नैवम, अग्रिमसूत्रे तृतीयासप्तम्योर्विकल्पविधानात् । यद्येवम्, एतेषां विषयं परिहत्य भविष्यति चेत्, न | "सिद्धो वर्ण०" (१।१।१) इत्यादिनिर्देशात् । तस्मात् समास एव पारिशेष्याद् भविष्यतीति । यद् वा अव्ययीभावग्रहणखण्डनपक्षेऽन्तग्रहणं न सुखार्थम् । किन्त्वकार एवान्तो यस्येति समासलाभार्थम् । यद् वा अव्ययीभावग्रहणखण्डनपक्षे समासग्रहणं कर्तव्यमिति। अत्रैव केचित् प्रथमोपस्थितत्वात् कर्मधारये प्रत्युदाहरणं युक्तं चेत्, न । सवर्णाविति ज्ञापकादत्र भविष्यति । नापि तृतीयातत्पुरुषे तृतीयासहयोग इति निर्देशात् । नापि चतुर्थीतत्पुरुषे परस्मैपदानीति निर्देशात् । नापि पञ्चमीतत्पुरुषे "एदोत्परः" (१।२।१७) इति ज्ञापकात्, स्वरपर इति निर्देशाच्च । नापि षष्ठीतत्पुरुषे, वर्णसमाम्नाय इति निर्देशात् । नापि सप्तमीतत्पुरुषे "प्रत्ययविकारागमस्थः" (२।४।४७) इति निर्देशात् । नापि द्वन्द्वे, प्रथम - तृतीयाविति निर्देशात् । नापि बहुव्रीहौ "कादीनि" (१।१।९) इति निर्देशात् । तथा च सति नापि द्विगोरिति द्विगुवर्जनं
४. अनेन व्यञ्जनान्ताल्लोपाभावे को विरोध: "व्यजनान्ताच्च"(२।१।४९) इत्यनेन सिद्धत्वादित्याह -
किञ्चेति । ५. ननु ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यत इत्याह – यद् वेति । ६. ननु सर्वनाम्नो बुद्धिस्थे शक्तिं परिकल्प्य समास एव गृह्यते, अन्यस्तु न बुद्धिस्थ इति
गौरवमित्याह – यद् वेति । ७. ननु कथमयं निर्देशो ज्ञापकः, यावता “या तृतीयासप्तप्योः"(२।४।२) इत्यनेन विकल्पितत्वात् ?
सत्यम् । तृतीयासहयोग इतीव निर्देशो यस्य समासस्य स तृतीयासहयोग इति निर्देश: "स्वरहयवकवर्गपवर्गान्तर०" (२।४।४८) इति स्वरूपादित्यर्थः । न चात्र वक्रोक्त्यानुचितमिति वाच्यम्, वक्ररुचिमुनेर्नेदमनिष्टामेति न्यायाद् यथा घट इति वक्तव्ये 'अनघट' इति । तथा च श्रीपतिः- द्वन्द्वेऽग्नेः पूर्वत्वमनित्यमिति "हः कालव्रीह्यो: " (४।२।६४) इति निर्देशात् ।