________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
संभवति, नासत्त्वस्येति । अव्ययीभावश्च पूर्वपदार्थप्रधानः । यदाह - "पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते" (२।५।१४ ) इति । इह पूर्वपदार्थस्य चाराचभूतत्वात् क्रियानिमित्तत्वमनुपपन्नमिति कथं कारकत्वमिति । तदभावे च विभक्तीनामनुपपत्तेः कथम् अम्भाव इति ? सत्यम् । यद्यपि कुम्भस्य समीपम् उपकुम्भम् इति उपशब्दार्थो धर्ममात्रमत्राव्ययीभावे प्रधानम्, तथापि गुणभूतोत्तरपदार्थापेक्षया तस्य क्रियानिमित्तत्वमुपचर्यते । यथा 'पञ्चपूलीमानय' इत्यत्र समाहारप्राधान्येऽपि गुणभूतसमाह्रियमाणपदार्थापेक्षया आनयनक्रियाभिसम्बन्ध इत्यदोषः । एवं च सति अन्तग्रहणं सुखार्थमिति प्रतिपत्तव्यम् | कष्टश्रित इति । कष्टं श्रित इति विग्रहे “विभक्तयो द्वितीयायाः (२।५।८) इत्यादिना द्वितीयालक्षणस्तत्पुरुषः । विभक्तीनामित्यादि । उपकुम्भं भाव उपकुम्भता । यदि विभक्तिग्रहणं न स्यात् तदा इहापि स्यात् । अथ 'अपञ्चम्याः इति विभक्तेः प्रतिषेधाद् विभक्तीनामेव स्यादिति ' यादृग्जातीयस्य विप्रतिषेधो विधिरपि तादृग्जातीयस्य' (का० परि० ९० ) इति न्यायात्, तदयुक्तम् । प्रत्ययस्य पञ्चम्याः सम्भवाद् अन्येषां प्रत्ययानामपि स्यादिति ॥ २८६ |
३
१. अकारान्तग्रहणं कथं निरर्थकं व्यञ्जनान्तान्न भविष्यतीति प्रयोजनमस्त्येवेत्याह- किचेति । २. भृतौ कर्मशब्द इत्यत्रैव शब्दग्रहणात् स्वं रूपमिति परिभाषा अस्तीत्याह - व्याप्तिन्यायादिति । ३. परिभाषाश्रयणे किं प्रमाणमित्याह - लक्षणापत्तेश्चेति ।
""
,
[क० च० ]
अव्ययी० । अव्ययीभावशब्दमात्रस्य न ग्रहणम् अकारान्तत्वाव्यभिचारेणाकारान्तादिति विशेषणवैयर्थ्यापत्तेरिति चेत्, न । अकारान्तत्वस्याव्यभिचारेऽपि यदकारान्तग्रहणं तज्ज्ञापयति - 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति परिभाषाऽस्तीति, तेन " समानः सवर्णे” (१।२ ।१ ) इत्यत्र समानग्रहणं न स्वरूपपरमिति चेत्, न । भृतौ कर्मशब्द इत्यत्र शब्दग्रहणेनास्याः परिभाषाया ज्ञापितत्वात् । 'किं च अव्ययीभावमाचष्टे इतीनि कृते क्विपि इनो लोपे इनः स्थानिवद्भावाद् वकारलोपाभावे चैकदेशविकृतस्यानन्यवद्भावाद् व्यञ्जनान्तादपि अम्भावे प्राप्तेऽकारान्तग्रहणं सार्थकमिति कथं ज्ञापकं स्यात् । तस्माद् अव्ययीभावशब्दादपि विधिरयं स्यात् | नैवम् | 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति न्यायाद् २व्याप्तिन्यायाद् वा शब्दस्य स्वरूपपरत्वेन लक्षणापत्तेश्च न स्वरूपग्रहणम् । ननु