________________
कातन्त्रव्याकरणम्
ननु कुम्भस्य समीपम् उपकुम्भम् इति, "पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते" (२।५।१४) इति पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियान्तरसंबन्धात् कथं कारकाणि भवन्तीति ? सत्यम्, पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थापेक्षः क्रियाभिसंबन्धो युज्यते एव । यथा 'पञ्चपूलीमानय' इति भावः समाहारप्राधान्येऽपि गुणभूतार्थापेक्षः क्रियाभिसंबन्धः । एवं तर्हि अन्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव । कश्चिदाह - अव्ययीभावो विशेषणम् अकारान्त इति विशेष्यम् । अन्तग्रहणबलादिति । तेन “अन्यस्माल्लुक्" (२।४।३) इत्यत्रान्यशब्दः प्रधानापेक्षः स्याद् अधिकारद्वयापेक्षोऽपि न वस्त्वपेक्षः । एवं सति अव्ययीभावादकारान्तादपि पञ्चम्यास्तृतीयासप्तम्योश्च पक्षे लुक् स्यात् । तत्र ह्यव्ययीभावादकारान्तादन्योऽव्ययीभाव एवावसीयते न्यायात् । यथा लोहिताद् गोरन्यमानयेत्युक्ते नाश्वादिरानीयते, अपि तु गौरेवेति ।।२८६ ।
[वि० प०]
अव्ययी० । अकारान्तादिति ।अकारोऽन्तो यस्य स तथोक्तः । येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धे यदन्तग्रहणं तदिह प्रकरणे तदन्तविधिर्नास्तीति ज्ञापयति, तेनेदं सिद्धम् । बहून्युपकुम्भं ययोः, उपकुम्भमतिक्रान्तौ 'बहूपकुम्भौ, अत्युपकुम्भौ' इति ।अन्यथा तदन्तपरिभाषया यथा अकारान्तात् तथा अव्ययीभावान्तादपि स्यादिति । एवम् “अन्यस्माल्लुक्' (२।४।३), "अव्ययाच्च" (२।४।४) इत्यत्रापि प्रतिपत्तव्यम् । बहूपवधुः ,अत्युपवधुः । बहूच्चैसौ, अत्युच्चैसौ इति । यद्येवं परमोपकुम्भम्, परमोपवधु, परमोच्चैः' इति न सिध्यति । तस्माद् अन्तग्रहणमपनीय प्रधानादिति वक्तव्यम् इत्युक्तम् । 'गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययो भविष्यति' (का० परि० २)। अथवा अव्ययीभावादिति पञ्चम्या विहितविशेषणमाख्यायते । तेन अव्ययीभावाद् विहितानां विभक्तीनामिति | एवमुत्तरत्रापि ।
नन्वत्र पक्षे ‘परमोपकुम्भम्' इत्यादयो न स्युः । न ह्यत्राव्ययीभावाद् विहिता विभक्तिः, अपि तु कर्मधारयादिति । नैवम् । अर्थमाश्रित्य विभक्तिर्विधीयमाना अर्थवतः शब्दाद् विधीयते, कर्मधारयस्योत्तरपदार्थप्रधानत्वात् । इह अव्ययीभाव एवार्थवान्, अतस्तत एव न्यायाद् विभक्तिरिति । वहुव्रीहे: पुनरन्यपदार्थप्रधानत्वान्नाव्ययीभावोऽर्थवान् इति न ततो विभक्तेर्विधिरस्तीति । ननु अर्थमाश्रित्य विभक्तिर्विधीयते, अर्थश्च कादिकारकलक्षणः कारकं च क्रियानिमित्तम्, क्रियानिमित्तत्वं च सत्त्वस्यैव