________________
॥श्रीः॥ अथ द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः
२८६. अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः [२।४।१]
[सूत्रार्थ]
अकारान्त अव्ययीभाव समास से परवर्ती विभक्ति के स्थान में 'अम्' आदेश होता है, पञ्चमी विभक्ति को छोड़कर ।।२८६ ।
[दु० वृ०]
अव्ययीभावसमासादकारान्ताद् विभक्तीनां स्थानेऽम्भवति अपञ्चम्याः । उपकुम्भम् ।अव्ययीभावादिति किम् ? कष्टश्रितः ।विभक्तीनामिति किम् ? उपकुम्भता । अपञ्चम्या इति किम् ? उपकुम्भात् ।। २८६ ।
[दु० टी०]
अव्ययी० । अव्ययीभावोऽत्र सूत्रे विशेष्यः । अकारान्त इति विशेषणं चेत् किमन्तग्रहणेन, 'येन विधिस्तदन्तस्य' (का० परि० ३) इत्यकारान्ताद् भविष्यति ? सत्यम् । अन्तग्रहणमिह प्रकरणे तदन्तविधिर्नास्तीति ज्ञापयति, तेनाव्ययीभावान्तादम् न भवति – 'बहूपकुम्भौ, अत्युपकुम्भौ' इति । तथा “अन्यस्माल्लुक्" (२।४।३) इत्यत्रापि 'बहूपवधूः, अत्युपवधूः' इति । तथा अव्ययाच्च – 'बहूच्चैसौ, अत्युच्चैसौ' इति । तर्हि कथं ‘परमोपकुम्भम्, परमोपवधु, परमोच्चैः' इति ? किञ्चाकारात् श्रुतमन्तग्रहणं कथं पुनः प्रकरणस्य नियामकमिति ? तस्मात् प्रधानादिति वक्तव्यम् । न च वक्तव्यम् ‘गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' (का० परि० २) इतीहाश्रयणात्, विहितविशेषणाद् वा अव्ययीभावाद् विहितानां विभक्तीनामेव, एवं वक्ष्यमाणयोरपि । कथं 'परमोपकुम्भम्', कर्मधारयाद् विहितात्र विभक्तिरिति । नैवम् । विभक्तिरर्थमाश्रित्योत्पद्यते, स चार्थोऽव्ययीभावस्येति न विरुध्यते इति ।