________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः कार्यम् एव । तस्माद् अयुक्तमेव द्वितीयातत्पुरुषे प्रत्युदाहरणमिति प्राहुः । तन्न, द्वितीयातत्पुरुषे "समासान्तगतानां वा" (२।६।४१) इत्यत्र ज्ञापकस्य विद्यमानत्वात् । न च तत्र सप्तमीसमास इति वाच्यम्, गमधातोर्व्याप्यत्वाविवक्षायां मानाभावात् । अतो द्विगुसमास एव प्रत्युदाहरणमिति ब्रूमः ।
वस्तुतस्तु ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यते, तस्माद् द्वितीयातत्पुरुष एवायं सर्वसमासोपलक्षणमिति युक्तमुत्पश्यामः । इदानीं पञी व्याख्यायते – अकारान्तादिति नात्र षष्ठीसमासः । श्रुतत्वादव्ययीभावसमाससंबन्धिनोऽकारस्य ग्रहणादित्याह - अकारोऽन्तो यस्येति । अत एव श्रुतत्वाद् अन्तशब्दो न समीपार्थः । अवयवार्थे च प्रयोजनं नास्तीत्याशङ्क्याह - येनेत्यादि । अथाकृतेऽन्तग्रहणेऽव्ययीभावाद् योऽकारान्तो वृक्षादिशब्दस्तस्माद् अम् स्यादित्यर्थः कथन्न स्यात् । स्थितेऽन्तग्रहणे बहुव्रीहिणाव्ययीभाव एवान्यपदार्थो लभ्यते इति चेत्, न । न्यायप्राप्तस्यान्तग्रहणेनापि तदर्थलाभात् । "समानाधिकरणान्वयसम्भवे व्यधिकरणान्वयानौचित्यात् । गौणेनेति तदन्तविधौ गौणमुख्यव्यवहारो नास्तीति तस्य शब्दाश्रयत्वादित्याह - अथवेति कुलचन्द्रः। तन्नेति महान्तः। यावता तदन्तविधिरेवात्र न गृह्यते, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । तर्हि कथं 'परमोपकुम्भम्' इति चेद् अत्राप्यव्ययीभावस्य विद्यमानत्वात् । नहि केवलाव्ययीभावाद् भविष्यतीति वाच्यम्, नियमाभावात् । कथमन्यथा प्रधानादित्युक्तेऽपि ‘परमोपकुम्भम्' इत्यत्रापि स्यात् ।
___ पक्षान्तरमाह - अथवेति । अस्मिन्नेव व्याख्याने 'उपकुम्भता' इति प्रत्युदाहरणं संगच्छते । अन्यथा यदि विहितविशेषणपक्ष एव ग्राह्यः स्यात् तदा विभक्तेर्विहितस्य तद्धितस्य स्थाने कथम् अम् स्याद् इति व्यङ्गवैकल्यं स्यादित्याहुः । तदसङ्गतमिति मन्यते । तथाहि विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वान्मा भूत् तदन्तविधौ न शब्दाश्रय इत्यस्य प्रवेशस्तदन्तविधेरभावात् । 'बहूपकुम्भौ' इत्यत्रावयवीभूतादव्ययीभावादम्विधौ ‘न शब्दाश्रयः' इत्यस्य प्रवेशे को विरोध इति । तस्मादुक्तदोषाशङ्कयैव पक्षान्तरमाह - अथवेति । तर्हि कथम् ‘उपकुम्भता' इति प्रत्युदाहरणं संगच्छते, व्यङ्गवैकल्यात् । यथा विभक्तिर्न भवति तथा अकारान्तादपि न भवति ? सत्यम् ।
८. ननु न्यायप्राप्तेऽन्तग्रहणेऽपि अव्ययीभावाद् योऽकारान्तस्तस्माद् अम् भवतीत्यर्थः कथं न
स्यादित्याह - समानेति ।