________________
५३९
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [दु० वृ०]
स्वराणां मध्ये आदौ स्वरस्य वृद्धिर्भवति सणकारानुबन्धे तद्धिते प्रत्यये परे । शैवः, औपगवः, कार्पण्यम् । कथं वाशिष्ठः ? आदावित्याकारप्रश्लेषात् । क्वचिदधिकारादुत्तरपदस्यापि लक्ष्यतः ।अवयवाद् ऋतूनाम् - पूर्ववार्षिकम्, अपरहैमनम् । वर्षेकदेशे हेमन्तैकदेशे- वषहिमन्तौ । सुसर्वार्धेभ्यो जनपदस्य च । सुपाञ्चालकः, सर्वपाञ्चालकः, अर्धपाञ्चालकः । क्वचिदुभयपदस्यापि - सौभाग्यम्, सौहार्दम् ।सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तंत्र भवः साक्तुसैन्धवः । एवमन्येऽप्यनुसर्तव्याः ।।४१५ ।
[दु० टी०]
वृद्धि० | स्वराणामित्यादि । स्वराणां मध्ये योऽसावादिविषये स्वरे स्वजात्यपेक्षया तस्येत्यर्थः । कथमेतत् ‘स्वरे ये च' इत्यनुवर्तते, स इह कार्यित्वेन प्रतिपत्तव्यः । सण इति वचनात् णकारः स्थितिमान्नास्तीति यावान् णकारानुबन्धस्तावति तद्धिते वृद्धिरिति भावः । सन्ध्यक्षराणाम् इति 'स्थानेऽन्तरतमः' (का० परि० १६) एकारस्यैकारः, ओकारस्यौकारः । एकस्य भावः ऐक्यम्, गोधाया अपत्यं गौधेयः । कथमित्यादि । "आरुत्तरे च वृद्धिः" (३/८/३५) इति वचनाद् अकारस्याकारो न प्राप्नोति । प्रश्लेषः पुनरत्र आ आदाविति आकारोऽयमविभक्तिकः एवेति । आदावित्याकारस्य दीर्घात् परलोपः “अवर्णः कण्ठ्यः सर्वमुखस्थानम्" (कात०शि०-सू०९) इत्येके |मुख्योऽत्रान्तरतमो न त्वेकदेश इति । क्वचिदित्यादि । श्रावणभाद्राख्यौ मासौ प्रावृट् । पूर्वाश्च ता वर्षाश्च । वर्षेकदेशे वर्षा इति । पूर्वशब्दोऽवयववचनो भवति, "तत्र भवः' (२/६/ ८) इतीकण् । एवम् अपरहैमनम् इति हेमन्तस्य तलोपोऽणि दृश्यते ।
ननु क्वचिदधिकारात् पूर्वस्य नाम भवतु, परस्य कथं वृद्धिरित्याह – लक्ष्यत इति । आदौ स्वरस्येत्यनेन सम्बन्ध इत्यर्थः । अप्यधिकाराद् वा । तथा च-गुरु च लघु च गुरुलाघवम्, गौरवलाघवम् । वातपित्तस्य संयोगनिमित्तं वातपैत्तिकम्, वातश्लैष्मिकम् । दिग्वाचकाद् देशे ग्रामनगरयोः । पूर्वकृष्टमृत्तिकायां भवः पूर्वकाष्टमृत्तिकः । एवं पूर्वेषुकामशम इति । यद्यपि समुदायः प्राच्यग्रामस्तथाप्येकदेशद्वारेणावयवे वर्तते । पूर्वकान्यकुब्जे भवः पूर्वकान्यकुब्जः, अपरनौघ्नः । संख्यायाः संवत्सरपरिमाणयोः । द्वौ संवत्सरावधीतौ तौ भूतौ भावी चेतीकण - द्विसांवत्सरिकः, त्रिसांवत्सरिकः । द्वौ कुडवौ