________________
कातन्त्रव्याकरणम्
प्रयोजनमस्येति इकण्-द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतो द्विसौवर्णिकः । कार्षापणसुवर्णसहस्रशतमानानामिकणोऽभिधेये विषयभूते च समास इष्यते । वर्षस्याभाविन्यर्थे - द्वे वर्षे भूतं धान्यं द्विवार्षिकम् । भाविन्यर्थे तु द्वे वर्षे भावि द्वैवार्षिकम् । प्रोष्ठभद्राभ्यां पदस्य जाते - प्रोष्ठो बलीवर्दस्तद्वत् पदानि यासामिति प्रोष्ठपदाः, तासु जातः प्रोष्ठपादः, भाद्रपादः । एवमन्येऽप्यनुसतव्या इति । इह लोके भवः ऐहलौकिकः । एवं पारलौकिकः, सार्वलौकिकः । सर्वपुरुषाणामिदं सार्वपौरुषम् । सर्वभूमेनिमित्तमिदं संयोगभूतो वा सार्वभौमः । प्रयोगे भवः प्रायौगिकः । अभिगममर्हन्ति आभिगामिका गुणाः । चतम्र एव विद्याश्चातुर्वैद्यम् । शतकुम्भे भवः शातकौम्भः, जातरौप्यम्, जातपौरुष्यम् । शुभ्रनभस्यापत्यं शौभ्रनाभिः, अधिदेवे भवम् आधिदैविकम् ।
देवताद्वन्द्वे सूक्तहविषोश्च । अग्नीवरुणौ देवते अस्य सूक्तविशेषस्य हविषश्च पुरोडाशादेर्वा आग्नीवारुणम् । सौर्याचान्द्रमसम् । प्राचां नगरस्य - सुम्भनगरे भवः सौम्भनागरः ।पौण्ड्यनागरः, पौर्वसौम्भनागरः | नगरशब्दमपेक्ष्य सुम्भशब्दःपूर्वपदमिति । जङ्गलधेनुवलजानां वा - कुरुजाङ्गले भवं कौरुजाङ्गलम्, कौरुजङ्गलं वा । विश्वधेनौ भवं वैश्वधेनवम्, वैश्वधनवं वा । सौवर्णबालजं सौवर्णबलजं वा । अर्थात् परिमाणस्य पूर्वस्य तु वा । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम्, अर्धद्रौणिकं वा । एवम् आर्धकौडविकम्, अर्धकौडविकं वा । अकारस्य न दृश्यते - अर्धप्रस्थेन क्रीतः आर्धप्रस्थिकः, अर्धप्रस्थिकः ।दीर्घस्य भवत्येव - अर्धखार्यां भवा आर्धखारी, अर्धखारी | स्त्रीप्रयोजनम् - अर्धखारी भार्या इति वृद्धिनिमित्तस्य तद्धितान्तस्य न पुंवद्भावः । तथा "नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्" (अ० ७/३/३०) - अशुचेरिदमाशौचम्, आनैश्वरम्, अनैश्वरम् । आक्षेत्रज्ञः, अक्षेत्रज्ञः। आकौशलम्, अकौशलम् । आनैपुणम्,अनैपुणम् । प्रवहणस्यापत्यम् अत्र्यादित्वादेयण – प्रावाहणेयः, प्रवाहणेयः । प्रस्य विभाषा वाहनस्य नित्यं प्रयोजनं पूर्ववत् ।
क्वचिद् इति वचनाद् इन्द्रपरस्य दीर्घाच्च वरुणस्य न स्यात् । अग्नीन्द्रौ देवते अस्य अग्नीन्द्रं मन्त्रं हविः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति प्राप्तः- मित्रावरुणौ देवते अस्य मैत्रावरुणं हविः । देविका-शिंशपा-दीर्घसत्र-श्रेयसाम् आकारः, वृद्ध्यपवादः । रूढित्वादप्यधिकाराद् वेति । देविका नाम नदी तत्र भवा दाविका । देविकाकूले भवश्च दाविकाकूलाः शालयः । शिशपानामिदं शांशपम् ।