________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४१ शिंशपास्थाने भवाश्च शांशपस्थानाः । "याकारी स्त्रीकृतौ ह्रस्वौ" (२/५/२७) इति ह्र स्वः । दीर्घसत्रे भवा दीर्घसत्राः। श्रेयसि भवः श्रायसः । तथा केकयमित्रयुप्रलयानां यादेरियः । केकयस्यापत्यमिति रूढित्वादण् कैकेयः । मित्रयोरपत्यम् इत्यण् - मैत्रेयः । प्रलयादागतं प्रालेयम् ।।४१५।
[वि० प०]
वृद्धि० । स्वर इत्यादि इह वर्तते स च कार्यितया प्रतिपत्तव्यः । सण इह निमित्तान्तरस्योपादानादित्याह - स्वराणामित्यादि । स्वराणां मध्ये य आदिविषये स्वरःस्वजात्यपेक्षया तस्येत्यर्थः । सणकारानुबन्ध इति तद्धितो णकारः स्थितिमान् नास्तीत्यनुबन्धो गम्यते इत्यादि । कथमित्यादि ।आकारस्य वृद्धिसंज्ञा नास्तीति "आरुत्तरे च वृद्धिः" (३/८/३५) इत्यस्याविषयादित्यर्थः । प्रश्लेषः पुनरत्र आ आदाविति । आ इति लुप्तप्रथमानिर्देशः आ आदावित्याकारस्य दीर्घात् परलोपस्तेन वृद्धिराकारश्च प्रवर्तते इति । प्रवृत्तिश्च 'स्थानेऽन्तरतमः' (का० परि०१६) इति न्यायात् ।
क्वचिदित्यादि । पूर्वाश्च ता वर्षाश्चेति विग्रहे “तत्र भवः' (२/६/८) इति क्रीतादित्वाद् इकण् । एवम् अपरहेमन्ते भवम् । एवमादित्वादण् । हेमन्तस्यापि तकारलोप इह दृश्यते । वर्षेकदेश इत्यादि । एतेन पूर्वादिशब्दोऽप्यवयववचनः । ततो हि कर्मधारय इति अवयवात् परो वर्षादिः ऋतुर्भवतीति दर्शितम् । सुसर्वेत्यादि । सुपञ्चाले भवः इत्यादि विगृह्य तमादित्वादिकण् । सौहार्दमिति । सुहृदो भावः कर्म वा, एवमादित्वादिकण् । एवमित्यादि । इह लोके भवः ऐहलौकिकः । एवं पारलौकिकः, सार्वलौकिकः इत्यादयो यथालक्ष्यमनुसरणीया इत्यर्थः ।। ४१५।
[क० च०]
वृद्धि० । सह णेन वर्तते इति सणः । ननु सहशब्देनात्र विद्यमानार्थः । विद्यमानत्वस्य सहयोगस्य चाघटनात् । उच्यते-णकारप्रध्वंसेऽपि स्मृतिसंभवादुभयार्थो घटते । देवदत्तेन कृतमित्यादौ कर्तृत्ववत् । अपरहैमनम् इति हेमन्तस्य तलोपो दृश्यते इति टीका । अप्यधिकारात् – गुरु च लघु च, तस्य भावो गौरवलाघवम् इत्यादावुभयत्र स्यात् । अशौचमिति मध्यस्यैव स्यात् । अशुन्यं घण्टिकम् इत्युभयत्र न स्यादिति टीकाकृतोऽन्येऽप्यूह्याः । न तीर्थभूम्योः- तीर्थिकः, भूमिकः ।।४१५ ।