________________
कातन्त्रव्याकरणम्
अस्यार्थः। क्रियार्था क्रिया उपपदं यस्य स्थानिनोऽप्रयुज्यमानस्याहर्तुमित्यादेः पदस्य तस्य कर्मणि चतुर्थीति । तन्न वक्तव्यम् । यो हि एधानाहर्तुं व्रजति स एधार्थं व्रजतीति शब्दस्य तादर्थ्यनिष्ठत्वाद् इत्याह - तादविवक्षेति । आहर्तुमित्यादि । तुमन्तक्रियापदमत्र न विवक्षितमेवेति । तद्विवक्षामन्तरेणापि वाक्यार्थस्य सङ्गतिरिति । ‘प्रविश पिण्डीम्' इत्यादी पुनरवश्यं विवक्षितव्यः क्रियासंबन्धः, न ह्यन्यथा वाक्यार्थसङ्गतिः स्यात् । तथाहि 'प्रविश गृहम्, पिण्डी भक्षय' इति गम्यते ॥ ३१३ । [क० च० ]
१६६
तुम० । [तुमर्थोऽर्थोऽस्येति मध्यपदलोपी समासः । येन विधिस्तदन्तस्येति भाववाचिनःप्रत्ययान्तादित्युक्तम् । ननु किमर्थमिदं पाकाय व्रजतीत्यादौ ' तादर्थ्ये' इत्यनेन सिद्धत्वान्नैवं हेतुमद्भावस्य विद्यमानत्वाद् हेतौ तृतीया स्यादिति वचनमिति टीका ] । पाकस्य त्यागस्येति । ‘पाकस्य व्रजति, त्यागस्य व्रजति' इति संबन्धमात्रविवक्षायां षष्ठीत्यर्थः ।
[पाकस्य त्यागस्येत्यत्र लिङ्गस्यान्तरङ्गत्वात् प्रथमा इति वक्तुं युज्यते कथं षष्ठी ? सत्यम् । संबन्धमात्रविवक्षायां षष्ठीति प्रतिपत्तव्यम् । यद् वा करणमित्यध्याहारात् त्यागस्येति षष्ठीयं पाकस्य त्यागकारणमित्यर्थः । हितसुखाभ्यां योगे तादर्थ्ये चतुर्थी संबन्धविवक्षायां षष्ठी । राज्ञे हितमिति । तेन चतुर्थी हितसुखेनेति श्रीपतिना यदुक्तं तद् ध्येयम् । एवम् आशिष्यर्थकुशलमद्रायुष्यार्थेनेति । प्रजाभ्योऽर्थः प्रजानामर्थो भूयाद् इत्यादि आशिष्यर्थे वेति वचनं नोपादेयम् । तथा 'एधान् आहर्तुम्, रथम् आरोढुं व्रजति' इत्यर्थे द्वितीयाबाधनाय नित्यं कर्मणि तुमोऽप्रयोगिण इति निष्फलम् । ‘एधेभ्यो व्रजति’ इत्यादेस्तादर्थ्यचतुर्थ्येव सिद्धत्वात् । यद् वा अप्रयुज्यमानस्य तुमः कर्मणि तादर्थ्ये चतुर्थी । प्रयुज्यमाने तु ‘एधानाहर्तुं व्रजति' इति वाक्ये द्वितीयैव व्याप्यत्वात् । अत एव नैयासिका अपि अप्रयुज्यमानस्यापि कर्मण्येव, यद् वा स्यादिह मा भूत् 'एधानाहर्तुं व्रजति' इत्याहुः]।। ३१३।
[समीक्षा]
'पाकाय व्रजति, त्यागाय व्रजति' आदि में चतुर्थी विभक्ति का विधान दोनों व्याकरणों में किया गया है । पाणिनि का भी एतादृश सूत्र है - "तुमर्थाच्च भाववचनात्” (अ० २।३।१५) । “भाववाचिनश्च " ( अ० ४।४।७०) सूत्र से 'घञ् -