________________
२०
कातन्त्रव्याकरणम्
[वि० प० ]
रूढानाम्० | जनपदेत्यादि । जनपदेन सह समानः शब्दो येषां क्षत्रियाणामिति विग्रहः । य एव संज्ञाशब्दः पञ्चालादिर्जनपदे वर्तते स एव क्षत्रियेष्वपीति । अतो जनपदसमानशब्दाः क्षत्रिया भवन्तो रूढसंज्ञां प्रतिपद्यन्ते, लोकोपचारादिति भावः । अणो लुगिति । तद्धितानामाकृतिप्रधानत्वाद् इह रूढादणिति वचनाद् अणो विहितस्य लुगित्यर्थः । तथा बाह्वादेराकृतिगणत्वात् प्रत्यग्रथाद् इण् । शाल्लांशात्, कलकूटात्, अश्वकादपीति वचनाद् अणोऽपवादः इण् इत्याह- इणो लुगिति । प्रियवाङ्गा इति । वङ्गस्यापत्यं वाङ्गः इत्येकत्वेऽणि कृते पश्चात् प्रियो वाङ्गो येषामिति बहुत्वे विग्रह इत्यर्थः । कलिङ्ग्य इति । कालिङ्गस्यापत्यानि स्त्रियः इति विगृह्य रूढादण् इत्यण् । ‘अण्, एयण्, इकण्, नण्, स्नण्, क्वरप्' षडनुबन्धो नदादिरिति वचनाद् ईप्रत्ययः । "ईकारे स्त्रीकृतेऽलोप्यः” (२|४|५१) इति अकारलोपः । पञ्चाला इति । "तस्येदम्” (२।६।७ ) इत्यण् । “इवर्णावर्णयोर्लोपः” (२।६।४४) इत्यकारलोपः ।। २९०|
[ क० च० ]
रूढानाम्० । स्त्रियामिति नाशङ्क्यते आदावपठितत्वात् । अपत्यप्रत्ययस्येति अकारादिसाहचर्याद् अपत्यमिति । न पतति वंशो येन जातेन तद् अपत्यम् इति वचनात् स्त्रीणामपत्यत्वं न विद्यते, कथम् अस्त्रियामिति प्रतिषेध उच्यते ? सत्यम् । स्त्र्यपत्ये जातेऽपि वंशो न पतति । यदाह – “पौत्रदौहित्रयोलकि विशेषो नास्ति कश्चन' इति धर्मशास्त्रम् | दौहित्रस्यापि पौत्रतुल्यत्वान्नापि सर्वेषामनपाय इति । केचित्तु अत I एव ज्ञापकात् स्त्रीणामपत्यत्वमिति । अन्यथा वर्जनमनर्थकं स्यादित्याहुः । अथ कथं रघोः पाण्ड्या इति पाण्डुशब्दाद् यणि उकारलोप इति ।
पाठान्तरम् रूढानाम्० | स्त्रियामिति नाशङ्क्यते व्याख्यानात् तत्पुनः परपदस्य स्वरादेः साहचर्यात् पूर्वपदस्य व्यञ्जनादित्वाद् व्यञ्जनादि स्यादिति चेन्न । तदा "रूढानां स्त्रियां बहुत्वे " ( द्र० - २।४।५) इति कृतं स्यात् । एवं कृते न भवति, आम्नायादिति कश्चित् । जनपदेत्यादि । समानशब्दोऽत्रैकपर्यायः । जनपदेन समान एकः शब्दो यस्य क्षत्रियस्य वाचकः स्यात् । यथा यज्ञदत्तदेवदत्तयोः समाना माता 'एकमाता' इत्यर्थः ॥ २९० ॥