________________
२३८
कातन्त्रव्याकरणम्
'अण्, एयण, इकण्, नण्, स्नण्, क्वरप्' षड् अनुबन्धाः । पुंनाम्नो योगात् अपालकान्तात् । पूतक्रतुवृषाकप्यग्निकुसितकुसीदानामै च | मनोरौ च वा । सूर्या देवी । इन्द्रवरुणभवशर्वरुद्रमृडाचार्याणामानन्तश्च । अर्यक्षत्रियाभ्यां वा । मातुलोपाध्यायाभ्यां वा । हिमारण्याभ्यां महत्त्वे । यवाद् दोषे । यवनाल्लिप्याम् । कृतात् करणादेः । क्तान्तादल्पोक्तौ । स्वाङ्गाद् अकृत-जात-मित-प्रतिपन्नेभ्यो बहुव्रीहौ । पाणिगृहीत्यूढा जातेरनाच्छादनाद् वा । स्वाङ्गादप्रधानात् । नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गगात्रकण्ठेभ्यः । पुच्छात् कबरमणिविषशरेभ्यः । उपमानादेः । पक्षात् । न क्रोडादेः । क्रोड, खुर, प्रोथ, त्रिक, बाल, कट, शफ, गुद, भग, गल । सह नविद्यमानपूर्वात् । नखमुखात् संज्ञायाम् । जातेरस्त्रीविषयादयोपधात् । पाक-पर्ण-कर्ण-वर्ण-पुष्प-फल-मूल-बालान्तात् । अपश्चिमे वयसि ।
तद्धितार्थे द्विगोः परिमाणान्तादसंख्याकालबिस्ताचितकम्बलेभ्यः । काण्डादक्षेत्रे । पुरुषाद् वा । केवल-मामक-भागधेय-पापावरसमानार्यकृतसुमङ्गलभेषजेभ्यः संज्ञायाम् । अन्तर्वली गर्भिण्याम् | पतिवनी भार्यायाम् | पत्युनश्च ऊढायाम् । सपूर्वस्य वा बहुव्रीहौ । समानैकवीरपिण्डपुत्रभ्रातृभ्यः । संख्यादेर्हायनाद् वयसि । वा पादः । ऊधसो नश्च । वा श्येतैतहरितलोहितेभ्यस्तश्च । असितपलितयोः क्नश्च । मनुष्यजातेरुकारान्ताद् ऊङ् । अप्राणिनामरज्ज्वादिभ्यः । बाह्वन्त-कद्रु-कमण्डलुभ्यः संज्ञायाम् । पशूः । श्वश्रूः । उपमानसहितसंहितसहशफवामलक्षणपूर्वादुरोः । अषावटाण्ण्यात् पौत्रादिदृष्टात् । आयनश्चान्तो वा - लोहितादिभ्यः शकलान्तेभ्यः । कौरव्यासुरिमाण्डूकेभ्यश्चेति ।
गणसूत्राणामुदाहरणमुच्यते । भाजादीनां पक्वादिषु यथासंख्यम् । भाज्यते इति भाजी पक्वा चेत् । अन्या भाजा | "गुरोश्च निष्ठा सेट्" (४।५।८१) इति 'अ' प्रत्ययः । गोणी आवपनं चेत् । यस्मिन् धान्यादि प्रक्षिप्य नीयते तदावपनम्, गोणा । नागी स्थूला चेत् । जातिवचनस्य नागशब्दस्य नेह ग्रहणम्, जातेरस्थौल्यात् । न तु गुणवचनस्य स्थौल्याव्यभिचारात् । यत्र हि स्थौल्यं संभवति, व्यभिचारोऽपि तद्विषय एवायं गृह्यते । काली कृष्णा चेत्, अन्या काला नाम । स्थली अकृत्रिमा चेत्, अन्या स्थला । या पुरुषव्यापारनिर्वृत्ता । कुण्डी अमत्रं चेत्, अन्या कुण्डा । या भाजनं न भवति । जातिवचनस्तु कुण्डशब्दो नपुंसकः, न तस्येह ग्रहणम् । कुशी आयसी चेत्, अन्या