________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२३९ कुशा । तदाकृतिरेव काष्ठादिमयी, न तु कुशशब्दस्य जातिनिमित्तस्य ग्रहणम् । कामुकी रिरंसुश्चेत्, अन्या कामुका, या न रमणेच्छावती । कबरी केशवेशश्चेत्, स पुनरलकाख्यः, अन्या कबरा । नीली बडवा, नीली ओषधिः । प्राण्योषध्योरिति किम् ? नीला शाटी । नीली, नीला | शोणी, शोणा इत्यादि । कमलशब्दः संज्ञायाम् अजातिवचनः । चन्द्रभागेति रूढं नद्याम् । अन्या चन्द्रभागी । अहन्शब्दस्यादन्तस्य - दीर्घाही शरत् । नित्यं कुम्भकारी औपगवी | चुरा शीलमस्याः; तपः शीलमस्याः 'चौरी, तापसी । एवमादेरण् । __आत्रेयी, आक्षिकी, सर्पिषा संस्कृता सार्पिष्की इसन्तादिकण, आदिलोपः । स्त्रैणी, पौंस्नी । “स्त्रीपुंसाभ्यां नणस्नणौ" चापत्यादावर्थे दृश्यते । सृत्वरी, जित्वरी । शिल्पिनि वुष्-नर्तकी, रजकी । प्रमाणे द्वयसट्-मात्रट-दध्नट्प्रत्ययास्तमादित्वात् । जानुः प्रमाणमस्याः ‘जानुद्वपसी जानुमात्री, जानुदघ्नी । कथं पठिता विद्या ? नायमिटष्टकारः क्तस्यानुबन्धः पुंसो नाम पुंसः संज्ञाभूतं योगादित्युक्तेऽपि श्रुतत्वात् पुंसो योगादादिपुरुषेण संबद्धाद्धेतोः पुंसः संबन्धमाचष्टे । प्रष्ठस्य भार्या प्रष्ठी । कस्यचित् प्रधानस्य संज्ञाभूतः शब्दः सोऽयमित्यभेदेन भार्यायां वर्तते । नामग्रहणं किम् ? प्रसूता प्रसवनिमित्तभूतत्वात् प्रसूतः । तत्संबन्धाद् भार्यापि प्रसूता । अपालकान्तादिति किम् ? गोपालिका | गवां पालकत्वेऽपि कस्यचिन्नामेति । 'पूतक्रतायी' इत्यादि | पुंयोगादिति किम् ? यया पूताः कृतवः सा पूतक्रतुर्भवति । मनोर्भार्या मानवी, मनायी, मनुर्वा । पुंयोगाद् ईप्रत्यये प्राप्ते आ निपात्यते – सूर्या देवी, सूरी अन्या । इन्द्रस्य भार्या इन्द्राणी | 'आचार्यानी' इत्यत्र णत्वं न भवति, तत्रापिग्रहणात् । दीर्घोच्चारणं सुखार्थम् । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया | अपुंयोगार्थमिदम्, पृथक्करणात् | पुंयोगे तु अ-, क्षत्रियी | आगमविकल्पार्थमिदम्, नित्यम् ईकारः सिद्ध एव । मातुली, मातुलानी । उपाध्यायी,उपाध्यायानी | महद्धिमं हिमानी । महदरण्यम् अरण्यानी । वाशब्दोऽत्र न वर्तते । दुष्टो यवो यवानी । यवनानी लिपिः । यवनशब्दो यवनसंवन्धिन्यां लिप्यामभेदोपचारेण वर्तते । भेदे तु यवनानामियं लिपिर्यावनी । अनन्तत्वाद् आनन्तश्चेति निवृत्तम् । करणमेवादिरवयवो यस्य क्रीतशब्दस्य तस्मादिति, अर्थात् समास एव गम्यते । वस्त्रेण क्रीतेत्यभिधानाद् अविभक्त्यन्तेन समासः ।