________________
२४०
कातन्त्रव्याकरणम्
कश्चिन्नपुंसकेन समस्य पश्चात् स्त्रीत्वविवक्षेत्याह - वस्त्रक्रीती । कथम्,
सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी ।
आदन्तेन समासोऽयम् आदिति हि प्रवर्तते ॥
अभ्रैर्विलिप्ता अभ्रविलिप्ती द्यौः । अल्पोक्ताविति किम् ? चन्दनविलिप्ता स्त्री । शङ्खौ भिन्नावस्याः शङ्खभिन्नी । अकृतादिभ्य इति किम् ? दन्तकृता, दन्तजाता, दन्तमिता, दन्तप्रतिपन्ना | बहुव्रीहाविति किम् ? हस्ताभ्यां पतिता हस्तपतिता । पाणिर्गृहीतोऽग्निसाक्षिकोऽस्या इति विग्रहः । एवं हि ऊढा स्यात् । पलाण्डुर्नाम जातिः। पलाण्डुर्भक्षितो यया सा पलाण्डुभक्षिती, पलाण्डभक्षिता । जातेरिति किम् ? मासजाता | अनाच्छादनादित्येव - वस्त्राच्छन्ना । अकृतादिभ्य इत्येव । कुण्डकृता, कुण्डजाता, कुण्डमिता । पलाण्डुजाता, वृक्षप्रतिपन्ना । वृक्षात् प्रतिपन्नम् प्रतिपतनम् अस्या इति विग्रहः । प्रतिपन्नमिति भावे क्तः । दीर्घकेशी, दीर्घकेशा |
अद्रनं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् ।
अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम् ॥
अद्रवमिति किम् ? बहुकफा । मूर्तिमदिति किम् ? बहुज्ञाना | प्राणिस्थमिति किम् ? दीर्घमुखा शाला । अविकारजमिति किम् ? बहुशोथा । अतत्स्थं तत्र दृष्टं च तदपि स्वाङ्गम् – दीर्घकेशी रथ्या, दीर्घकेशा । तेन चेत् तत् तथायुतम् - पृथुस्तनी प्रतिमा, पृथुस्तना । इहाप्रधानग्रहणाद् अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला | स्वाङ्गादिति किम् ? बहुपादा नान्दी, बहुयवा भूमिः । ' सिद्धे सत्यारम्भो नियमार्थः' (कात० प० ५९ ) । नासिकोदराभ्यामेव । बहुस्वराभ्यामिति ओष्ठादिभ्य एव । संयोगोपधेभ्य इति – शङ्कुनासिकी, शङ्कुनासिका । तनूदरी, तनूदरा । बिम्बोष्ठी, बिम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्णा । तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा । मृदङ्गी, मृदङ्गा । चारुगात्री, चारुगात्री । रक्तकण्ठी, रक्तकण्ठा । एभ्य इति किम् ? पृथुजघना, चारुचरणा, चारुगुल्फा । दीर्घपुच्छी, दीर्घपुच्छा । अतिपुच्छी, अतिपुच्छा | नासिकेत्यादिनियमनिवृत्तौ वचनम् । पूर्वेण विकल्पे प्राप्ते नित्यार्थमिदम् | कबरपुच्छी, मणिपुच्छी विषपुच्छी, शरपुच्छी । उलूकस्येव पुच्छोऽस्याः उलूकपुच्छी। उपमानादेरित्येव । उलूकस्येव पक्षोऽस्याः उलूकपक्षी ।