________________
२०७
नामचतुष्टयाप्याये चतुर्थः कारकपादः कश्चिद्-आदिशब्दस्य व्यवस्थायाचित्वाद् अधिकरणे वर्तमाने च विहितस्य क्तप्रत्ययस्य न ग्रहणमिति मन्यते । तदयुक्तम्, निष्ठात्वं तस्य केनापनोद्यत इति । "इधारिभ्यां शन्तृङ् अकृच्छ्रे"(४।४।१०)-अधीयन् पारायणम् । धारयन् लोकायतम् । “पूयजोः शान" (४।४।८)- सोमं पवमानः । कवचम् उद्वहमानः- "शक्तिवयस्ताच्छील्ये" (४।४।९) । घटं विद्वान् इति पण्डितार्थत्वाद् वन्सुरेव | वचनम् अनूचानः । उपसेदिवान् गुरुम् | “आद् ऋवर्णोपघालोपिनां कि· च" (४।४।५३) दधिर्गाम्, चक्रि कटम् । "भाज्यलंकृञ्०" (४।४।१६) इत्यादिना इष्णुच् - कन्यामलंकरिष्णुः । “जिभुवोः ष्णुक्" (४।४।१८) इति । अरिं जिष्णुः । "त्रसिगृधिधृषिक्षिपां क्नुः" (४।४।२०)धनं गृध्नुः । “सनन्ताशंसिभिक्षामुः" (४।४।५१)- कटं चिकीर्षुः । इह व्यपदेशिवद्भावाद् उकारान्तता । 'येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमन्तग्रहणं गणे सुखार्थम् ।
"श्रकम०" (४।४।३४) इत्यादिना उकञ्-ग्रामं गामुकः, भोगानभिलाषुकः । उकप्रतिषेधक एव प्रतिषेध इष्टः । दास्याः कामुकः रिरंसुविषये । अन्यत्र भोगान् कामुकः ।तन्न वक्तव्यम्, संबन्धस्यैव विवक्षितत्वात् । गणकृतमनित्यमित्येके ।अव्ययम् - कटं कृत्वा, घटं कर्तुं गतः । खलर्थः- ईषत्करः कटो भवता । ईषत्पानः सोमो भवता। तृन्-वदिता जनापवादान् । अको भविष्यद्विहितः इंश्च भविष्यदधमर्णविहित इह पठितव्यम् । कटं कारको व्रजति । क्रियायां क्रियार्थायामिति वुण् । ग्रामं गमी, ग्राममागामी भविष्यति गम्यादयः । शतं दायी । आवश्यकाधमर्णयोर्णिन् । भविष्यदधिकारविहितस्याकस्येह ग्रहणम् । तेन वर्षशतस्य पूरकः । पुत्रपौत्रस्य दर्शकः । “द्विषः शत्रौ शन्तृङ्" (४।४।११) इति कर्मणि द्वितीया, सम्बन्धविवक्षायां तु षष्ठीति मनसिकृत्याह -द्विष इत्यादि । 'ईषत्करः कटो भवतः, शतस्य दायी' इति संबन्धविवक्षापि दृश्यते । “कृत्यानां कर्तरि वा" (अ० २।३।७१) इति न वक्तव्यम् । भवतः कटः कर्तव्यः' इति संबन्धे, 'भवता कटः कर्तव्यः' इति कर्तरि । ननु यदि विवक्षाया एव प्राधान्यं दर्शितम्, तर्हि कृति निष्ठादिवर्जिते संबन्धे षष्ठ्येव कर्मणि द्वितीयेति ? सत्यम् । व्यापकं सूत्रमिदं विवक्षया निर्वोदुमनुचितं मन्दधियः संकरमपि प्रतिपद्यन्त इति भावः ।।३२७।