________________
३४४
कातन्त्रव्याकरणम्
[दु० टी०]
स्याताम्। आरूढ इत्यादि । दत्तं भोजनं यस्मै, उच्छिन्ना जनपदा यस्मात्, चित्रा गावो यस्य, बहून्युदकानि यस्याम् इति विग्रहः । पुनरन्यार्थं पदम् अन्यपदस्यार्थे वर्तते? सत्यम् । वाक्ये यानि पदानि विशेषणत्वेन विशेष्येऽन्यपदार्थे वर्तन्ते, तान्येव वृत्तौ सविशेषणस्यान्यपदार्थस्य वाचकानि,स्वभावादिति । कथं तर्हि समासोक्तस्यान्यपदार्थस्य प्रयोगः 'चित्रगुर्देवदत्तः' इति ? सत्यम् । मत्वर्थवृत्तिना बहुव्रीहिणा सामान्यमभिहितं न विशेष इति न विरुध्यते । न च विशेषाभिधाने वृत्तिरस्ति, सापेक्षत्वात् । चित्रा गावो
देवत्तस्येति वाक्यमेव । यद्येवं चित्रगु सर्वं चित्रगु तदिति कथम् ? सत्यम् । सामान्यमपीह विशेषतुल्यं व्यावर्तकत्वादिति न चित्रगुरेकः किन्तर्हि सर्व इति । ननु च द्वयोर्बहूनां नाम्नां समासस्तत्र सिद्ध एव वचनस्यातन्त्रत्वाद् अन्यस्य पदस्यार्थे यः समासः, स बहुव्रीहिरिति शक्यं विज्ञातुम्, यदिह द्विपदबहुपदग्रहणं करोति तज्ज्ञापयति- अन्यत्राविशेषे युक्तार्थत्वात् समासो द्विपद एव प्रतिपत्तव्यः । ननु विशेषेणाघ्रातत्वाद् अन्यस्यैवार्थे भविष्यति किमन्यग्रहणेन, नैवं कल्पनैवं दुरधिगमा स्यात् । मत्ता बहवो मातङ्गा यस्मिन् मत्तबहुमातङ्गः, तथा पञ्च गावो धनमस्येति पञ्चगवधनः । “संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये" (अ०२।२।२५)। संख्येये या सङ्ख्या तया संख्यया समस्यते, तेनैव संज्ञेयम् अन्यपदार्थलक्षणा भवतीति । उपगताः समीपगता दश एषां नवानामेकादशानां वा । एवमासन्ना दश एषाम् अदूरे दश एषाम्, अधिका दश एषाम् इति विग्रहः। त्रिर्दश परिमाणमित्यादि । यद्यपि 'आदशभ्यः संख्या संख्येये वर्तन्ते' इति दर्शनम्, तथापि परिमाणशब्दसन्निधानेन हि दशशब्दः संख्यायाः परिमाणमेव संख्येयमाह । तच्च दशसंख्यया परिच्छिद्यमानं संख्यानरूपं नातिवर्तते एवेत्याह- यथेत्यादि । तदस्य परिमाणमित्यस्मिन् विषये संख्यायाः संज्ञायां कविधौ यथा, पञ्च-संख्या परिमाणेनाभिसंबध्यमाना संख्यानवृत्तिः। परिमाणेषु शकुनिषु षष्ठ्यर्थेषु प्रकृतित्वमनुभवति । तथेहापि दशशब्दः संख्यानवृत्तिरिति सुजर्थस्य समासेनाभिहितत्वादप्रयोगः “संख्याया अबहोः" (२।६।४१-६०) इति समासान्तोऽत्।
___ एतेनाधिका विंशतिरेषां ते अधिकविंशा इत्यनेन तुल्यत्वं स्थापितम् । 'द्वित्राः' इति वार्थेऽस्याभिधानम् । तत्र च संशयितेऽर्थे बहुवचनं प्रयुज्यते, यथा 'कति भवतः पुत्राः' इति । अथवा द्वौ वेति यः संशयः सः त्रयो वेत्यपेक्षते । त्रयो वेति द्वौ वेत्यपेक्षते ।