________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३४५ संशयस्योभयावलम्बनत्वात् पञ्चार्थबुद्ध्यपेक्षया समासाभिधेया इति । यदि तर्हि सैषा पञ्चाधिष्ठाना वाक् । एवं तर्हि स्थाणुर्वा पुरुषो वेति व्यधिष्ठानत्वाद् द्विवचनं स्यात् । न चायं समासः, किन्तु वाक्यं भेदाभिधानाद् यथास्वमेव (सुखार्थमेव) विभक्तिभिन्नेत्यादि । उरसि स्थितानि लोमान्यस्य, कण्ठे स्थितः कालोऽस्येति स्थितशब्दः समासे गतार्थो न प्रयुज्यते ।उच्चैर्मुखमस्येति।अव्ययस्याद्रव्यवाचित्वाद्रव्यवाचिना मुखशब्देन वैयधिकरण्यम् । सहेत्यादि। आगमनम् उभयोस्तुल्यमिति तुल्यार्थोऽत्र सहशब्दो विद्यमानार्थश्च समस्यते इत्याह-सह लोम्नेत्यादि । सहशब्दस्य तुल्ययोगे तृतीयान्तेन समास इति नाद्रियते। केशेषु चेत्यादि । सप्तम्यन्तं तृतीयान्तं च सरूपं तत्र गृहीत्वा तेन वा प्रहत्य युद्धेऽन्यपदार्थे समासस्तेनैव बहुव्रीहिश्च, अभिधानादिति भावः । ह्रस्वस्य दीर्घता। एवं मुष्टामुष्टि। क्रियाव्यतीहारे बहुव्रीहिसमासोऽन्त इच्, इचि नाम्यन्तस्य पूर्वपदस्यात्वं दृश्यते। कैश्चिदव्ययोऽयम् । 'अस्तिक्षीरा ब्राह्मणी' इति अस्तिशब्दोऽयमव्ययस्त्याद्यन्तप्रतिरूपक इति ।
__कथं 'नीलोत्पलवत्सरः कृष्णसर्पवान् वल्मीकः, रक्तशालिमान् ग्रामः' इति । एते हि संज्ञाशब्दाः मत्वर्थाभिव्यक्तावसमर्था इति मन्त्वादयो भवन्त्येव तर्हि कथं :बिसकिसलयच्छेदपाथेयवन्तः' इति, पूजाद्यर्थलाभात् । तुल्याधिकरणेऽपि क्वचिद् वाक्यमेव दृश्यते । पञ्च भुक्तवन्तोऽस्य इति प्रथमान्तेऽपि। अन्यत्र न दृश्यते । वृष्टे देवे गतो यः स वृष्ट-देव इति । तस्मात् तुल्याधिकरणे भिन्नाधिकरणे वाऽभिधानात् समाससंज्ञेयमिति । अतस्तुल्याधिकरणानि पदानि द्वितीयाद्यन्तेऽन्यपदार्थे इत्यधिकारमाश्रित्य न वक्तव्यमेव ।।३४६।
[वि० प०]
स्याताम्। नाम्नां युक्तार्थत्वात् समासः सिद्ध एव केवलं बहुव्रीहिसंज्ञाविषयाः कथ्यन्ते इत्याह-यत्रेत्यादि । एवमिति दत्तं भोजनं यस्मै अतिथये, उच्छिन्ना जनपदा यस्मात्, चित्रा गावो यस्य, बहून्युदकानि यस्याम्, मत्ता बहवो मातङ्गा यस्मिन् वने इति विग्रहः । “संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये" (अ० २।२।२५) इति वक्तव्यम्। अस्यार्थः- संख्येये वर्तमानया संख्यया अव्ययासन्नादूराधिकसंख्याः समस्यन्ते । तद् यथा- उप समीपे दशानाम् उपदशाः । एवम् आसन्ना दशानाम्, अदूरे दशानाम्, अधिका दशानाम्, त्रिर्दश द्वौ वा त्रयो वेति विग्रहः । तदेतन्न वक्तव्यम् अन्यपदार्थस्या