________________
३४६
कातन्त्रव्याकरणम् वर्तमानस्य समानाधिकरणपदद्वयस्य बहुव्रीहिः सिद्ध एवेत्याह - तथेत्यादि । उपगताः समीपगता इत्यर्थः । एषां नवानाम् एकादशानां वेत्यर्थः । ये हि दशानां समीपे तेषामपि दश उपगताः समीपगता इत्यर्थोऽपि न भिद्यते । तथा ये आसन्ना दशानां तेषां दशाप्यासन्ना इति आसना दश एषामदूरे दश एषामधिका दश एषामिति विग्रहः ।
ननु ये दशानामधिकास्तेषां कथमधिका दश इति न ह्येकादशानामधिका दश भवितुमर्हन्ति तस्माद् ‘अधिकदशाः' इत्यनेनात्र नवैवोच्यन्ते । नैयासिकानां तु मते एकादशैवेति (न कथं) विरोधः । तदयुक्तम्-अधिका दश येषाम् इत्युक्ते एकादशैवोच्यन्ते । यस्मादधिकत्वं दशानामेकाद्यपेक्षया त्ववयवेन विग्रहः । समुदायस्तु समासार्थः । अत एवाह शाकटायनः- अधिका दश येषु ते अधिकदशा एकादशादय इति । एवं द्वादशादिषु अपि एकाद्यपेक्षया अधिका दश विद्यन्ते । ततोऽवयवेन विग्रहः समुदायस्य समासार्थत्वात् तेऽप्यधिकदशा उच्यन्ते इति भावः । ते पुनर्नवैकादश वेति । वृत्तिग्रन्थस्तु उपदशादिभिः संबन्धनीयः। अधिकदशा इत्यनेन तु एकादशैवेति, तच्चोपलक्षणम् - एकादशादय इत्यर्थः । संख्यायाः समासमाह-त्रिरित्यादि । "द्वित्रिचतुर्थ्यः सुच्" (२।६।४०१३) इति संख्याया वारे सुच्, तमादित्वात् । यद्यपि आदशभ्यः संख्याः संख्येये वर्तन्ते । अतः परं संख्याः संख्याने संख्येये चेति दर्शनम् । तथापि दशशब्दः परिमाणसन्निधौ वर्तमानः संख्यायाः परिमाणमेव संख्येयमाह । तच्च दशसंख्यापरिच्छद्यमानं संख्यानमेव प्राप्तमित्याह-दशशब्द इत्यादि। किमेवं दृष्टमित्याह-यथेत्यादि । कथमन्यथा तदस्य परिमाणमित्यस्मिन्नर्थे संख्यायाः संज्ञायां कप्रत्ययविधौ शकुनयः षष्ठ्यन्ततामनुभवेयुरित्यर्थः । सुच्प्रत्ययस्तु समासेऽवगतार्थो न प्रयुज्यते । द्वित्रा इति वाऽर्थेऽस्याभिधानम् । वाऽर्थस्तु न विकल्पः, किन्तर्हि संशयः । विकल्पे हि यदा द्वौ भवतस्तदा बहुवचनं न स्यात्। संशये तु सदा बहुवचनं प्रयुज्यत एव । यथा कति भवतः पुत्रा इति । तथा चोक्तं भाष्ये-अविज्ञातेऽर्थे बहुवचनं प्रयोक्तव्यमिति । अथवा संशयज्ञानस्योभयपक्षपरामर्शित्वेन बहुत्वविषयत्वाद् बहुवचनमिति । यथोक्तम् - द्वौ वेत्युक्ते त्रयो वेति गम्यते । सैषा ‘पञ्चाधिष्ठाना वाग्' इत्यत्र तु बहुवचनं युक्तम्। 'स्थाणुर्वा पुरुषो वा' इत्यादिवाक्येन भेदस्याभिधीयमानत्वाद् एकवचनमेव, न द्विवचनमिति । एतेषु संख्यायाः “अबहोरन्त्यस्वरादिलोपश्च" (२।६।४१-६०) इति राजादित्वाद् अत् प्रत्ययः, अन्त्यस्वरादिलोपश्च । यथा पञ्च षट् परिमाणमेषां पञ्चषा इति बहुव्रीहिः