________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
समानाधिकरणानामिति कश्चित् । तदयुक्तम् इत्याह- भिन्नेत्यादि । उच्चैर्मुख इति । उच्चैर्मुखमस्येति विग्रहः । उच्चैः शब्दस्याद्रव्यवाचित्वाद् मुखशब्दस्य द्रव्यवाचित्वाद् भिन्नाधिकरणता । कश्चिद् अधिकारमाश्रित्य द्वितीयाद्यन्तान्यपदार्थे बहुव्रीहिरिति । तदप्ययुक्तमित्याह - अन्येत्यादि । तुल्ययोगेऽत्र सहशब्दः । यस्मादागमनमुभयोस्तुल्यम् ।“सपरस्वरायाः” (३ । ४ । १ ) इत्यादि ज्ञापकस्य लक्ष्यानुरोधाद् बहुव्रीहौ सहस्य सो विभाषयेति वचनात् सहस्य सभावः। तथा विद्यमानवचनस्यापि समासो दृश्यते । अतस्तेन सह तुल्ययोग इति न वक्तव्यम् इत्याह-विद्यमानेत्यादि । सह दशभिरिति, विद्यमानैरित्यर्थः । केशेष्वित्यादि। सप्तम्यन्तस्य तृतीयान्तस्य च सरूपोपपदे यथाक्रमं ग्रहणप्रहरणोपाधिके युद्धेऽन्यपदार्थे क्रियाव्यतीहारे गम्यमाने तेनैव समासो बहुव्रीहिश्चाभिधानात् । इदं तु न वक्तव्यमेव " तत्र तेनेदम् इति सरूपे" (अ० २।२।२७) इति न्यूनत्वात् " हस्वस्य दीर्घता” (२।५।२८) इति दीर्घः, सद्यआद्यत्वात् क्रियाव्यतीहारे बहुव्रीहिसमासेऽन्त इच्च । यथा मुष्टामुष्टीति क्वचिद् नाम्यन्तस्य च पूर्वपदस्यात्वं दृश्यते अव्ययत्वं चास्य स्वभावात् ।। ३४६ ।
३४७
[ क० च० ]
स्याताम्०। यत्रेति पाठो वृत्तौ नास्ति । यदि शब्देनान्वयादिति कुलचन्द्रः। अस्य तु मते समास इति प्रथमान्ततयाऽनुवर्तते, तन्नेति महान्तः । यत्रेति पाठस्यान्यसम्भवात् । तथाहि यदि द्वे पदे विशेषणविशेष्यभावापन्ने स्यातां यदि वा बहूनि पदानि विशेषणविशेष्यभावापन्नानि स्युस्तदा तानि पदानि अन्यपदस्यार्थे यत्र समासे वर्तन्ते । ते च पदे यदि वर्तेते तदा स समासो बहुव्रीहिर्भवतीत्यर्थः । बहुपदेऽपीति वृत्तिः । नन्वत्र सूत्रे बहुग्रहणं किमर्थं द्विग्रहणमेवास्ताम् । तर्हि कथं 'भत्तबहुमातङ्गं वनम्' इति बहुपदे बहुव्रीहिः स्यादिति चेत्, आदी मत्तबहुशब्दयोः कर्मधारयं विधाय पश्चाद् द्विपदेनैव बहुव्रीहिर्भविष्यतीति नैवम् । 'चित्रगोधनम्, महन्नीलोत्पलम्' इत्यत्र बहुव्रीहिस्थलेऽपि प्रथमतः कर्मधारयं कृत्वा पश्चाद् बहुव्रीहौ पुंवद्भावे महतोऽन्तस्यात्वे च चित्रगवधनम्, महानीलोत्पलम्' इति अपप्रयोगः स्यात् । तर्हि द्विपदग्रहणमपि न क्रियतां पदमित्युच्यताम् एकस्य युक्तार्थताभावाद् द्वयोर्बहूनां चैव भविष्यति ? सत्यम् । अत्र बहुग्रहणं ज्ञापयतिबहुव्रीहिरेव बहुपदे भवति नान्यः समासः इति । तेन महन्नीलोत्पलं चित्रागोधनमित्यादि
"