________________
३४८
कातन्त्रव्याकरणम्
त्रिपदकर्मधारयो न स्यात् । न चात्रापि महत आत्वे चित्राशब्दस्य पुंवद्भावे 'महानीलोत्पलम्, चित्रगवधनम्' इति भविष्यतीति वाच्यम् । आत्वपुंवद्भावयोरुत्तरपदे एव विधानात् । नवैकादश वेति वृत्तिः।
ननु दशानां समीपगता उपदशा इत्यर्थे सति उपदशशब्देन दशत्वसंख्यापरिच्छिन्नां व्यक्तिमपेक्ष्य समीपवर्तिनि गृह्यमाणे तामेव दशत्वसंख्यापरिच्छिन्नामवयवभूतां व्यक्तिमादाय एकादशैव वक्तुं पार्यते कथं नवेति ? सत्यम् । सामीप्यमिह दशत्वसंख्यामपेक्ष्य गृह्यते, ततश्च दशत्वसंख्यायाः समीपगता या संख्या तविशिष्टा व्यक्तय उपदशशब्देनोच्यन्ते । ते पुनर्नवैकादश वेति न दोषः । बहुव्रीहिपक्षेऽपि इत्थमेव व्याख्येयं परिमाणशब्दसान्निध्यादिति । वाक्यस्थपरिमाणशब्दसान्निध्यादित्यर्थः । न हि परिमाणशब्दं विना बहुव्रीहिः संभवतीति भावः । संख्याया इति पञी। त्रित्वरूपाया इत्यर्थः। परिमीयते परिच्छिद्यतेऽनेनेति परिमाणं संख्यानं दशत्वमित्यर्थः । संख्याया इत्याश्रयाश्रयिभावसंबन्धे षष्ठी । तथा च परिमाणं दशत्वं त्रित्वरूपायाः संख्यायाः संख्येयमित्यर्थः । परिमाणमेव संख्येयमाहेति । एतेन दशशब्दस्य संख्यानवृत्तित्वेऽपि संख्येयवाचिता न व्याहतेति भावः । प्रकृते संख्यानस्यैव संख्येयरूपत्वात् । ननु दशत्वसंख्यायाः परिमाणं संख्येयमाहेत्युक्तेऽपि परिमाणशब्दस्य सामान्यवाचित्वाद् दशसंख्यायाः परिमाणं किं ह्रस्वत्वदीर्घत्वादिना, संख्यया वा इत्याह-परिमाणमित्यर्थः, चकारः पुनरर्थे दश इति दशत्वमित्यर्थः । संख्येति त्रित्वरूपया परिच्छिद्यमानं संख्यानं दशत्वमेव न ह्रस्वदीर्घादिरित्यर्थः। यतो दशत्वं संख्यानम् अतः संख्यानमेव प्राप्तम् । सैषेति सा एषा वाक् पञ्चाधिष्ठाना पञ्चाभिधेया पञ्चविषया इति हेतोर्बहुवचनं प्रयुक्तमित्यर्थः । भेदस्याभिधीयमानत्वादिति वस्तुगतभेदस्योक्तत्वादिति । स तु स्थाणुर्वा इत्युक्ते वस्तुनो द्वित्वादिभेदोऽवगम्यत इति । अद्रव्यवाचित्वादिति सामानाधिकरण्येन मुखरूपद्रव्यस्यावाचित्वादिति । यस्माद् उच्चैःशब्दस्योच्चाधिकरणत्ववाचितेति ।
केशेष्वित्यादि । तत्र तेनेदमिति सरूप इति परः । अस्यार्थः- इदमित्यर्थे सप्तम्यन्ते तृतीयान्ते च समानरूपे द्वे पदे समस्येते इत्यर्थः । इतिशब्दो लौकिकविवक्षार्थः । तेन ग्रहणप्रहरणोपाधिोके प्रसिद्धत्वाल्लभ्यते इत्यर्थः । न्यूनत्वादिति । सूत्रे साक्षाद् ग्रहणप्रहरणादीनामनुपादानादित्यर्थः।। ३४६ ।