________________
२८०
कातन्त्रव्याकरणम्
[दु० वृ०]
व्यञ्जनान्तस्य युक्तार्थस्थस्य लुप्तासु विभक्तिषु सुभोर्यदुक्तं तद् भवति । सुपि मुख्यं कार्यं नास्तीति सुभोर्युगयदुक्तं स्यात् । विद्वद्गमनम्, दिग्गतः, षडाकृतिः, ज्ञानभुदाश्रयः । अतिदेशोऽयम् ।। ३४१।
[दु० टी०]
व्यजनान्त।सुभोरिति । सुबिति सप्तमीबहुवचनम्, भकारोऽपि बिभक्तरेव गृह्यते अर्थात् । सुपीत्यादि । ननु अपां गमनम् अब्गमनम् इति भे परे दत्वस्य दृष्टत्वात् 'अपां भे दः' प्राप्नोति ? सुप्युक्तं नास्तीति व्यञ्जनोक्तमेव गम्यते । णोः कटावन्तौ । क्रुञ्चां पतिः क्रुपतिः । सुगणां पतिः सुगण्पतिरिति । नैतदेवम् । न तत् सूत्रम् अभिधानात् । वर्णागम इति तत्र निश्चितम् । किञ्च सुभोलिङ्गकार्यमेव दृष्टं कथमन्यत् कार्यं भवति, तेन सुभोरेककालोक्तं व्यञ्जनकार्यमेव स्यादिति भावः । यद्येवं साविति कथन्न कुर्यात्, किमिह भग्रहणेन ? नैवम् । अघोषे प्रथमोऽपि स्यात, आस्तां प्रथमः । स्वरघोषवतोस्तृतीयो भविष्यति । तर्हि पदान्ते धुटां प्रथमे सिद्धेऽतिदेशबलात् प्रथमो भवन् तृतीयं बाधेत | कश्चिदाह-उभयोरुपादानं यौगपद्यार्थम् । सुपि णोः कटौ विधीयेते इति । सुभोः पूर्वा प्रकृतिरेवावधारिता सैवात्रापि पूर्वव्यपदेशिनी गृह्यते । तेनोत्तारपदे भवति । अथवा भावकर्मणोः सिजाशिषोरित्यादिनिर्देशादन्तपदे न भवतीत्यवसीयते ।
विदुषां गमनम्, दिशो गतः, षण्णामाकृतिः, ज्ञानबुधामाश्रय इति विग्रहः । एवमन्यदपि प्रतिपत्तव्यम् । श्रुतत्वाद् यस्य यदुक्तं तस्य तदेव भवतीति कार्यमतिदिश्यते । कश्चिदाह - यद्ग्रहणं सर्वसादृश्यार्थम् इति । तदयुक्तम् । यद्ग्रहणमन्तरेण व्यञ्जनान्तस्य सुभोर्लुप्तयोः कार्यं स्यादिति प्रतिपद्यते । कथं राजानं गतः राजगतः, तथा विद्वदागतो महद्गत इति न संयोगान्तयोरलुप्तवद्भावात् । आप एव वनमस्य अब्बन इति "घुटि चासंबुद्धौ” (२।२।१९) इति दी? न स्यात् ? सत्यम् । व्यावृत्तिबलाद् व्यञ्जनान्तस्य यत् सुभोरुक्तं भवति, अन्यत्र वचने यदुक्तं तन्न भवतीति भावः । ननु च दास्यर्थः, मात्रर्थः, दान्वर्थः, वस्वर्थः इति यत्वे रत्वे च कृते संयोगादेः संयोगान्तस्य च धुटो लोपः कथन्न स्यात् ? सत्यम्, अन्तग्रहणबलाद् व्यञ्जनमेवान्तोऽवयवो यस्य तद् व्यञ्जनान्तम्, इदं तु (यत्वादि प्राक्) स्वरान्तमिति कुतः प्रसङ्गः । तदेतद्वाक्यसमासपक्षे जल्पनमिति ।।३४१।