________________
२८१
नामचतुष्टया याये पञ्चमः समासपादः [वि० प०]
व्यञ्जनान्त० । ननु अपां गमनम् अब्गमनम् इत्यत्र “अपां भेदः' (२।३।४६) इति भकारोक्तः कथं दकारो न भवतीत्याह - सुपीत्यादि । मुख्यं कार्यं यत् साक्षात् सुप्युक्तं तदिह न विद्यते । यद्यपि सन्धिटीकायां साक्षात् सुप्युक्तं कार्यं “णोः कटावन्तौ वा शषससुप्स्विति तदपि न सूत्रम्, किन्तर्हि वर्णागम इति तत्र निश्चितम् । अतः सुपि सामान्यमेव कार्यमवगम्यते, तत्साहचर्याद् भकारेऽपि सामान्य कार्यम्, न विशिष्टम् । अतः सुभोर्युगपदुक्तमेककालोक्तम् । तत्पुनर्व्यञ्जनोक्तं कार्यमेव स्यादिति भावः । विद्वद्गमनमित्यादि । विदुषां गमनम्, दिशो गतः, षण्णामाकृतिः, ज्ञानबुधामाश्रय इति विग्रहः । इह "विरामव्यानादिष्वनडुनहिवन्सीनाच" (२।३।४४) इत्यादिना दकारादिकार्यं व्यञ्जनोक्तं भवति, एवमन्यदपि । अतिदेशोऽयमिति । यद्यपि शास्त्रान्तरे बहवोऽतिदेशा निरूपितास्तथापि कार्यातिदेश एवायम्, तत्तु इष्टत्वात् प्रवृत्तेः कार्येऽतिदिश्यमाने यस्य यदुक्तं तस्य तदेव श्रुतत्वादिति ।। ३४१ ।
[क० च०]
व्यानान्त०। युक्तार्थस्थस्येति वृत्तिः। अत्र वैयः- ननु युक्तार्थे तद्धितादिविषयेऽस्य सूत्रस्य विषयोऽस्ति न वा ? सत्यम् । नास्त्येवेति, यावता राजतेत्यादौ प्रत्ययव्यञ्जनमात्रे लिङ्गान्तनकारलोपोऽस्त्येव किमत्रातिदेशेन, तथा धुत्वम् इत्यत्रापि "दिव उद् व्याने" (२।२।२५) इत्यत्र सामान्यव्यञ्जनाश्रयणात् तेनैव सिद्धं कुतोऽत्रातिदेशावकाशः । तथा च "व्याने चैषां निः" (२।२।३८) इत्यत्र एषांग्रहणादेव व्यञ्जनमात्रस्य ग्रहणे पथित्वम् इत्यत्रापि तेनैवानुषङ्गलोपः, तथा "अनुषङ्गश्चानुश्चेत्, पुंसोऽनशब्दलोपः, चतुरो वाशब्दस्योत्वम्, अनडुहश्च" (२।२।३९, ४०, ४१, ४२) इत्यादावघुट्स्वरस्य प्रत्ययस्य साहचर्याद् व्यञ्जनस्यागि प्रत्ययस्यैव ग्रहणम् । अतः 'विद्वत्ता' इत्यादिष्वपि नास्त्यतिदेशावकाशः । तथा च "आत्वं व्यजनादौ,रैः"(२।३।१८, १९) इत्यादौ आदिशब्देन साक्षाद् विभक्तेः परिग्रहणाद् 'युष्मत्त्वम्, रैत्वम्' इत्यादिष्वपि नास्त्येवातिदेशप्रयोजनम् । तथा "विरामव्यञ्जनादिषु" (२।३।४४) इत्यादौ सुभोरित्यकरणेन व्यञ्जनग्रहणस्य करणात् सामान्यव्यञ्जनलाभेऽप्यादिशब्दबलात् प्रत्ययव्यञ्जनमेव गृहीतम् । तेन ‘विद्वत्ता' इत्यादिष्वपि तेनैव सकारस्य दकारः।
न च ‘वैदुष्यम्' इत्यादौ युक्तार्थमात्रानुवर्तनस्य प्रयोजनमिति वाच्यम् । यतः प्रत्ययव्यञ्जनव्यावृत्त्या प्रत्ययाघुट्स्वरे दकारो न भविष्यति। अतोऽत्रापि नास्ति तद्धित