________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१०१ निवर्त्यफलमभिसंधाय प्रवर्तते कर्तृव्यापारो धातुनोपादीयते, अन्यथा तत् फलं न निवर्तेत, कर्तृव्यापारायत्तत्वात् फलनिष्पत्तेः । तदा ‘ओदनं पचति' इति भवितव्यम् । यदा तु ओदनस्यैव कर्तृत्वं विवक्ष्यते प्रस्तुतार्थवशेन, तदा विक्लित्तिवचनः पचिः । यथा विक्लिद्यति ओदनः, सिध्यति ओदनः, तथा पचत्योदनः = विक्लेदं प्रतिपद्यते इत्यर्थः । तथा च पक्वं फलम् । 'यदा तु कर्तृव्यापारेण व्याप्यमानः कर्म भूत्वा कर्ता स्यात्, सौकर्यादिगुणविवक्षा तदा कर्म कर्तृत्वम् । पच्यते ओदनः स्वयमेवेति विक्लेदमात्रवचन एव पचिज्ञेयः ।
___ ननु पाकार्थत्वात् पाकशब्दवाच्या अधिश्रयणादयो भवन्तः, किं पचिना भेदेनोच्यन्ते उताभेदेन ? सत्यम् । अभेदविवक्षायामपि नात्यन्तमेकरूपतापत्तिः । नहि महिषपुरुषादयोऽभेदेन विवक्ष्यमाणा अप्येकरूपा भवन्ति, किन्त्वेकार्थक्रियाकारित्वद्वारेणैकरूपावगम उपचारस्य प्रतिपतृधर्मत्वान्नायं विषयधर्मः । नहि सर्षपरूपेणाध्यवसितं हेमरजः सर्षपकार्यं तैलादिकं सम्पादयति । अतोऽधिश्रयणादयः स्वरूपेण भिन्नाः (स्वरूपानभिन्नाः)पाकप्रयोजनत्वात् पाकाभिसन्धिप्रवर्तितत्वाच्च पाकरूपतयाऽवसीयन्ते । न तु वस्तुतस्त्वेषामैक्यम्, कुतः पुनरिदं चोद्यम्, अभेदविवक्षायां पाकरूपापन्नाः अधिश्रयणादयश्च तण्डुला एव कर्तारः स्युरिति। अधिश्रयणादिरूपार्थापन्नश्चेत् पाकः पुरुष एव कर्ता स्यात्, तदा तु ओदनस्य कारकत्वं न स्यात् ।अधिश्रयणादेरतद्व्यापारत्वादिति भेदाभिधानेऽपि संबन्धानामेवेह संभवाद् एकं हि प्रधानं कार्यमुद्दिश्योपाधीनां प्रवर्तमानत्वात् । तत्र च पूर्वपूर्वक्रियाभागसमाश्रयणेनोत्तरोत्तरं क्रियाविशेषावयवाः प्रवर्तेरन्, तेन विक्लेदो निष्पद्यते, यतोऽनन्तरं विवक्षितमोदनादिकं भवति । तदेवमुत्तरोत्तरं प्रति पूर्वपूर्वस्य साधनत्वम् | आत्मलाभे तु पूर्वपूर्वापेक्षया साध्यत्वम् इति न भवत्येकविषये विरोधः ।एकपुरुषविषये पितापुत्रव्यपदेशवत् । तत्र फलम्ओदनादिकमपेक्ष्य पाकः प्रधानम्, तद्बलेन तन्निष्पत्तेस्तदुपायकत्वात् कर्तृव्यापारोऽप्रधानम् । शब्दात्तु साध्यसाधनप्रतीतेस्त्याद्यन्तात् कर्तृव्यापार एव विक्लेदोपसर्जनः प्रतीयते । धातुप्रत्ययेन कर्तुः साधनस्याभिधानात् तद्व्यापार एव प्रकृत्यर्थः साध्यः । ____ एवं च प्रकृतिप्रत्ययौ संबद्धौ भवतः, साध्यसाधनसंबन्धप्रतीतेः । ओदनस्तु न प्रत्ययार्थः, केवलमसौ शब्दान्तरवाच्यस्तद्गतस्तु पाको गुणभूतो धातुना समाक्षिप्तस्तदर्थं च सर्वकारकग्रामः प्रवर्तते, तद्विषया करणादिव्यवस्था ।देवदत्तः काष्ठे: स्थाल्यामोदनं