________________
१०२
कातन्त्रव्याकरणम्
पचतीति । न च वक्तव्यं क्रियाभेदानां संबन्धे सति प्रयोज्यप्रयोजकभावादिन् स्यादिति निर्वर्तनारूपस्य व्यापारस्यात्र प्रतीतेर्निवृत्तिः कर्मगता विक्लित्तिसंज्ञिता । निर्वर्तना तु कर्तृगता, अस्य व्यापारद्वयस्य पचिनैवोक्तत्वाद्योतितत्वाच्च कथमिन्निति । द्वितीयकर्तुः पुनरत्र प्रयोजकत्वात् तद्व्यापारस्य पचिनाऽनुक्तत्वाद् इन् भवत्येव - पाचयत्योदनम् इति । ननु च देवदत्तः पाकादिक्रियां दूराद् उपकरोति करणाधिकरणाभ्यां त्वव्यवधानेन साध्यते, तदस्यामनेकसाधनसाध्यायां कोऽस्यातिशयः, येन यः करोति स कर्तेति प्रधाननिर्देशाद् देवदत्त एव प्रतिपत्तव्यो भवति? सत्यम् । यतः करिव सकाशात् करणत्वादिप्रतिलम्भः कर्तुः पुनः स्वसामथ्यदिवार्थलाभो न करणादेस्तन्नियोज्यत्वात् । उक्तञ्च,
व्यापारमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके।
व्यापारभेदापेक्षायां करणत्वादिसंभवः॥(कातन्त्रसम्प्रदाय) इति । कथम् असिश्छिनत्ति, स्थाली पचतीति ? वस्त्वर्थोऽत्र गौण इति कर्तृत्वं तु मुख्यं विवक्षया । उक्तं च,
यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते।
स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः॥ (वा०प०२।२३५) इति । [वि० प०]
यः करोति० । छात्रेणेत्यादि । ननु क्रियां कुर्वन् कर्ता भवति, ततश्छात्रेण हन्यते इत्यत्रैव स्यात् । कथं 'चैत्रेण कृतम्' इति भूते, तदा क्रियाया असंभवादिति ? सत्यम् । यदा क्रियामसौ कृतवांस्तदा कर्तेति । अधुनापि तदर्थस्मृतिविज्ञानमित्यदोषः । तथा करिष्यन्नपि क्रियायाः कर्तव तथोपचारात् । अथवा भूतभविष्यक्रियासु योग्यतामधिकृत्य तथोच्यते । यथा लोकेऽपचन्नपि सूपकारः पचनयोग्यतया पाचक इत्युच्यते । तेन "कर्तरि च" (२।४।३३) इति तृतीया सिद्धेति ।।२९९ ।
[क० च०]
यः । करोतीति आख्यातप्रत्ययेन स्वतन्त्र उच्यते,शब्दानां नित्यत्वान्नेतरेतराश्रयदोषः। 'क्रियायां यः स्वतन्त्रः स कर्तेत्यर्थः । तथा च पाणिनिः - "स्वतन्त्रः कर्ता"
१. ननु करोतीति कथं तिप्रत्ययस्तस्य कर्तरि विधानात् । तदभावेऽनेनैव विधानं नास्तीति । संज्ञां विना विधिन भवति, विधिं विना च संज्ञा न भवति । कथं करोतीत्यत्र कर्तरि तिप्रत्यय इति मनसिकृत्याह-शब्दानामित्यादि ।