________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१०३ (अ० १।४।५४) इति । अथ किमिदं स्वातन्त्रयम्, न तावत् पराप्रयोज्यत्वम् । राज्ञा आज्ञप्तः कार्यं करोतीत्यादावव्याप्तेः । नापि परप्रयोजकत्वं देवदत्तो भवतीत्यादावव्याप्तेः' । नापि कार्यानुकूलविज्ञप्तिचिकीर्षाकृतिशालित्वम्' 'रथो गच्छति' इत्यादा - वचेतनत्वादव्याप्तेः । नापि क्रियाश्रयत्वम् “कर्मस्थः पचतेर्भावः" इति न्यायाद्
ओदनादीनां क्रियाश्रयत्वेन कर्तृत्वप्रसङ्गादिति चेत्, न भावशब्दस्य तत्र क्रियाफलाभिप्रायेण प्रयुक्तत्वात् । अस्तु वा तत्र भावशब्दः क्रियावाची तथापि विक्लित्तिक्रियात्वेन विवक्षिते सति ओदनः पचतीति प्रयोगदर्शनान्नाभिव्याप्तिः, तर्हि घटो नष्ट इत्यादावभावस्य प्रतियोग्यनधिकरणत्वेनाव्याप्तिः ।
१. परप्रयोजकत्वं स्वातन्त्र्यमित्युक्ते राज्ञाज्ञप्तः कटं करोतीत्यादौ करोते:- कर्तुर्जनस्य प्रयोजकत्वाद् राज्ञः कर्तृत्वं कटस्य प्रयोजकत्वाज्जनस्य कर्तृत्वं सिद्धम् । देवदत्तो भवतीत्यादौ अकर्मकस्थलेऽन्यस्य प्रयोजकत्वाभावाद् देवदत्तादेः कर्तृत्वं न स्यादित्यर्थः। २. विज्ञप्तिर्विशेषज्ञानम्, तच्चेष्टसाधनताज्ञानम्, तज्जन्या चिकीर्षा करणेच्छा । तज्जन्यकृतिशालित्वं स्वातन्त्र्यम् इत्यर्थः । तथाहि,
आत्मजन्या भवेदिच्छा इच्छाजन्या कृतिभवेत्। कृतिजन्या भवेच्चेष्टा क्रिया सैव निगयते ॥ (कातन्त्रसम्प्रदाय) इति ।
घटं जानातीत्यत्र विज्ञप्तेः सार्थक्यम् ।कटं करोतीत्यादौ करणस्य करणासंभवे कृतिशालित्वाभावात् चिकीर्षायाः सार्थक्यम् । देवदत्तो भवतीत्यादौ कृतेः सार्थक्यं ज्ञेयम् ।। ३. भावशब्दस्य क्रियाफलवाच्यत्वे स्थाल्याम् ओदनं पचतीत्यादौ ओदनस्य कर्मणः क्रियाश्रयत्वाभावाद् अधिकरणभूतायाः स्थाल्या एव प्राप्तिः स्यादित्याह-अस्तु वेति । ४. एकधातुवाच्यक्रियाकेवलाश्रयत्वम् अभिप्रेतम् । तेन ओदनः पचतीति विक्लित्तिमात्रे विवक्षिते क्रियायाः केवलाश्रयत्वेन कर्तृत्वं स्फुटमेव । केवलाश्रयपदेन ओदनं देवदत्तः पचतीति प्रयोक्तव्ये ओदनो देवदत्तः पचतीति प्रयोगनिरास एव, ओदनस्य व्याप्यत्वेन क्रियाश्रयत्वात् । एकधातुवाच्यपदेन 'पाचयति देवदत्तेन चैत्रः' इत्यादौ देवदत्तस्य भिन्नधातुवाच्यक्रियाव्याप्यत्वेऽपि कर्तृत्वे न विरुद्धमिति । ५. ध्वंसाभावस्य सदा वर्तमानत्वेऽपि कर्तरि क्तप्रत्ययः सिद्धः । अतीतकालवृत्तिनाशानुकूलसहकारिसत्ताश्रयो घटो नाशोत्पत्त्याश्रयो घट इति च बोधः । नाशप्रतियोगित्वं नशधात्वर्थः । अतः प्रतियोगितायाः घटे वर्तमानत्वात् कर्तृत्वे न विरोध इति विभक्तितत्त्वम् । ननु यदि नाश एव नशधात्वर्थः कल्प्यते, तदा अभावस्य नित्यत्वात् सर्वथा वर्तमानत्वम् । तत्कथं 'नष्टः' इत्यत्र कर्तृत्वे क्तः सिद्धः । 'घटो नष्टः' इत्यत्र नशधातोरर्थो नाशः, नाशश्च ध्वंसः । स चानुयोगिन्येव वर्तते इति च चिन्तनीयमिति। तद्भिन्नत्वे सति तज्जन्यजनकत्वं सहकारित्वम् । तदवच्छिन्नासमवधानेन फलोपधायकत्वाभाववत स्वावच्छिन्नकत्वं वा सहकारित्वमिति । तच्छब्देनात्र प्रतियोगित्वमभिप्रेतम् । प्रतियोगिताजन्यनाशस्तदनुकूलप्रतियोगिता सहकारिघटादेः सत्तारूपव्यापारः नाशकालेऽपि घटादौ वर्तते, अतो 'घटो नष्टः' इत्यादौ घटादेः कर्तृत्वम् इत्यर्थः ।