________________
१०४
कातन्त्रव्याकरणम्
अथ नाशानुकूलसहकारिसत्ताविशेषो नशधात्वर्थ: ( अथवा नाशप्रतियोगित्वं नशेरर्थः) । अत एव 'नष्ट:' इत्यादावतीतेऽपि कर्तरि क्तप्रत्ययः सिद्धः । एवं चोपपद्यते कर्तृत्वमिति चेत्, घटो भवतीत्यत्र कालस्यापि कर्तृत्वं स्यात्, कालस्य सर्वाश्रयत्वेन क्रियाया अप्याश्रयत्वात् । नापि विवक्षितकारककलापव्यापारजनकत्वाभावादव्याप्तेरिति चेद्, उच्यते - कारकचक्रव्यापारप्रतिबन्धकीभूतव्यापाराभाववत्त्वं स्वतन्त्रत्वम् इति । यद् वा प्राधान्येन धातुवाच्यव्यापारवत्त्वम्' । न चैकस्मात् कार्यानुपपत्तेस्तादृशो व्यापारः करणादेरपीति वाच्यम्, करणादेः साक्षाद् धातुवाच्यव्यापारासंबन्धात्, किन्तु परम्परयैव । न च 'पाचयति देवदत्तेन' इत्यादौ पाचयतिना प्रयोजकस्यैव व्यापार उच्यते इति देवदत्तस्य कर्तृत्वं न स्यादिति वाच्यम्, यावता पाचयतीत्यन्तर्गतपचिना देवदत्तगतव्यापार उच्यते इति । तदाह,
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
व्यापारे च प्रधानत्वात् स्वतन्त्र इति चोच्यते ' ॥
( द्र०, वै० भू० सा०- सुबर्थ०, पृ०१९१) ।
अत एव टीकायामपि यस्य धातुवाच्यव्यापार इत्युक्तम् । इदानीं पञ्जी व्याख्यायते । ननु ‘सूत्रे लिङ्गं संख्यां कालश्चातन्त्राणि' (का० परि० ६१ ) इत्युक्तमेवास्ति । तत् कथं यः क्रियां कुर्वन्निति वर्तमानकालमादाय पूर्वपक्ष उपतिष्ठते ? उच्यते, तिप्रत्ययेन क्रियाया आश्रय उच्यते । ततश्च क्रियाया अतीतत्वे भविष्यत्त्वे वा तस्या इदानीम् अनाश्रयत्वेन कथं देवदत्तादेः कर्तृत्वम् इति पूर्वपक्ष: संगच्छते । यद् वा
१. ननु प्राधान्येन धातुवाच्यव्यापारवत्त्वम् इत्युक्तेऽपि कथं कालादावतिव्याप्तिवारणं कालादेरपि तदुद्व्यापाराश्रयत्वात् ? सत्यम् । प्राधान्येनेति धातुवाच्यांशे व्यापारांशे च विशेषणं व्यापारवत्त्वांशे प्राधान्यं तु इतरानिरपेक्षया प्रतीतिविषयत्वम् । तेन कालस्य चैत्राद्यपेक्षयैव व्यापारवत्त्वेन इतरनिरपेक्षया प्रतीतिविषयत्वाभावो नातिव्याप्तिः । वस्तुतस्तु मत्वर्थीयप्रत्ययो वृत्तिनियामकसंबन्धाभिधायकः कालिकसंबन्धस्य वृत्त्यनियामकत्वेन तत्संबन्धेनाश्रयत्वे कालस्य न कर्तृत्वम् । कालस्य कालिकसंबन्धेनैव सर्वत्र वृत्तिः ।
२. अथ करणादिष्वपि धातूक्तक्रियाश्रयत्वमस्ति तेषामपि कर्तृत्वं स्यादित्याह - व्यापारे चैति । अर्थात् प्रधानव्यापाराश्रयत्वात् कर्ता स्वतन्त्र इत्युच्यते, करणादौ च तद्व्यापारी गौण इति ।