________________
४०२
कातन्त्रव्याकरणम्
३६३. पुरुषे तु विभाषया [२/५/२६] [सूत्रार्थ]
तत्पुरुषसमास में पुरुष शब्द के परवर्ती होने पर कु-शब्द को वैकल्पिक काआदेह होता है ।।३६३।
[दु० वृ०]
कुशब्दस्य तत्पुरुषे पुरुषशब्दे च परे विभाषया कादेशो भवति । कापुरुषः, कुपुरुषः । इयमप्राप्ते विभाषैव । ईषदुष्णम्-कोष्णम्, कवोष्णम्, कदुष्णम् इति वक्तव्यम् ।।३६३।
[दु० टी०]
पुरुषे० । नन्वीषदर्थे नित्यं प्राप्तः कुत्सितार्थे त्वप्राप्त एव कादेशः तत्रोभयत्र विभाषा युक्तेति । न चोद्यम् नात्र विभाषा विधेया, किं तर्हि कादेशः, स चाप्राप्तः कुत्सितार्थ एवेत्याह - इयमित्यादि । वाग्रहणे विधेयत्वाशङ्का स्यादित्यनव्ययो विभाषाशब्दस्तृतीयान्त उच्यते । विपूर्वाद् भाषतेः “गुरोश्च निष्ठासेटः" (४/५/८१) इत्या ययः। कादेशस्तावत् सिद्ध एवेत्याह-कवोष्णमित्यादि । उष्णशब्दे कवादेशः कदादेशश्चेति वक्तव्यं व्याख्येयं लोकोपचारादित्यर्थः ।।३६३।
[वि० प०]
पुरुषे० । इयमित्यादि । ननु कथमवधारणमीषदर्थे नित्यं प्राप्तः कुत्सितार्थे त्वप्राप्त एव कादेशः, ततश्चोभयत्र विभाषा युक्तेति ? सत्यम् । विभाषयेति तृतीयानिर्देशादिह कादेशस्य विधेयत्वं न विभाषायाः । यच्च विधेयं तदप्राप्तमेवेति मन्यते । ईषदित्यादि । नित्यं कादेशे प्राप्ते कवादेशः कदादेशश्चोष्णशब्दे विधीयते । वक्तव्यमिति व्याख्येयम्, लोकोपचारादित्यर्थः ॥३६३ ।
[क० च०]
पुरुषे० । विपूर्वाद् भाषतेर्गुरोश्च निष्ठासेट इत्यप्रत्यये सति विभाषेति रूपम् । कादेशस्तावत् सिद्ध एवेत्याह - कवोष्णम् इत्यादि । पञ्ज्यां न विभाषेति अन्यथा वेति कृते सिध्यतीति भावः ।।३६३।