________________
४५३
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः नास्तिकः, दैष्टिकः । दिष्टं दैवं तदस्य शीलं चेति । अपूपाः शीलमस्य तद्विषयत्वादपूपभक्षणं वा अपूपशब्देनोच्यते, शिल्पवदिहापि व्याख्येयम् आपूपिकः। निकटादिषु वसति । निकटे वसति नैकटिकः, वार्भमूलिकः, आवसथिकः । तोमरायुधयोगादिति । आयुध्यतेऽनेनेति आयुधम् प्रहरणम् । ___ ननु यस्य तोमरायुधं स तोमरेण चरति इति सिद्धम् किमभेदोपचारेण, नैवम् । चरतीत्यर्थकथनेन हि क्रियाप्रधान इकण् उच्यते 'अनेन क्रियायामप्रधानादपि । तोमरेण कृतविद्योऽयं तोमरेण जानाति प्रहर्तुं क्रियायोग्यतामात्रमाख्यायते । न पुनर्व्यापारवत्त्वं तोमरेणायुध्यते इति । तर्हि शिल्पमित्येव सिद्धं निषिध्यति तोमरविषये निष्पादनक्रिया शिल्पमस्येति गम्यते । प्रहरणं चास्य विषय इति । कथं शाक्तीको याष्टीक इति, तत्र व्यवस्थितवास्मरणादिवर्णलोपो न दृश्यते । दीव्यतीत्यादिग्रहणं कृतादेराकृतिगणस्य प्रपञ्चार्थम् । ऋवर्णोवर्णेसुस्तान्तदोर्थ्य इकणादिलोपो दृश्यते ।पैतृकः,दौहितृकः,शालाटुकः, आलाबुकः, सार्पिष्कः, धानुष्कः, औदश्वित्कः, दौष्कः । शश्वतस्तु शाश्वतिकः । रूढिशब्दा हि एते तद्धिताः इति ||३७४।
[वि० प०]
तेन । यथासंबन्धमिति क्रीतादेराकृतिगणत्वादित्यर्थः। यत्र संस्कृतत्वं तत्र संसृष्टत्वमस्तीत्याह – एवं मारीचिकमिति । ननु संसर्गो हि मूर्तिमतां भवति, संस्कारश्च सत उत्कर्षाधानम् । यथा विद्यया वैधिकः इति । न खल्वत्र संसर्गः प्रतीयते, तस्मात् "तेन संस्कृतम्" (अ० ४/४/३) इति वक्तव्यमेव ? सत्यम् । अनेकार्थत्वाद् घातूनां सम्पूर्वः सृजिरिह संस्कारेऽपि वर्तत इति । तरतिरयमस्ति प्लवने, यथा तरति पत्रं न निमज्जति । अस्ति प्लवनपूर्वक देशान्तरप्रापणे च, यथा नदी तरति । अस्त्यभिभवे- तरति ब्रह्महत्यां योऽश्वमेधेन यजते इति । तत्र प्लवनमात्रमिह गृह्यते इत्याह - गोपुच्छेनेत्यादि । तथा प्लवनसामान्यस्य विद्यमानत्वाद् देशान्तरप्रापणेऽभिभवने च भवतीत्याह - एवमित्यादि । इह तद्धिते सति तद्वाच्यस्य साधनस्य प्रधानत्वाद् अप्रधानं क्रियेति न तन्निबन्धनं कर्मत्वम्, अपि तु संबन्धविवक्षायां षष्ठ्येव नद्यादेर्भवति । चरतिरिह गतौ रूढः-शकटेन चरति । गच्छतीत्यर्थः । तथा घण्टया चरति घण्टिक इत्याह - एवमिति । तत्र क्वचिदधिकारादिह द्विस्वरस्य न वृद्धिः । शृङ्गवेरेणे